वांछित मन्त्र चुनें

श्र॒द्धाया॑ दुहि॒ता तप॒सोऽधि॑ जा॒ता स्वसा॒ ऋषी॑णां भूत॒कृतां॑ ब॒भूव॑। सा नो॑ मेखले म॒तिमा धे॑हि मे॒धामथो॑ नो धेहि॒ तप॑ इन्द्रि॒यं च॑ ॥

मन्त्र उच्चारण
पद पाठ

श्रध्दाया: । दुहिता । तपस: । अधि । जाता । स्वसा । ऋषीणाम् । भूतऽकृताम् । बभूव । सा । न: । मेखले। मतिम् । आ । धेहि । मेधाम् । अथो इति । न: । धेहि । तप: । इन्द्रियम् । च ॥१३३.४॥

अथर्ववेद » काण्ड:6» सूक्त:133» पर्यायः:0» मन्त्र:4


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मेखना बाँधने का उपदेश।

पदार्थान्वयभाषाः - [वह मेखला] (श्रद्धायाः) श्रद्धा [आस्तिक बुद्धि, विश्वास] की (दुहिता) पूरण करनेहारी [यद्वा पुत्री समान प्रिय], (तपसः) तप [योगाभ्यास] से (अधि) अच्छे प्रकार (जाता) उत्पन्न हुई, (भूतकृताम्) सत्यकर्मी (ऋषीणाम्) ऋषियों [सन्मार्गदर्शकों] की (स्वसा) अच्छे प्रकार प्रकाश करनेहारी [अथवा बहिन के समान हितकारिणी] (बभूव) हुई है। (सा) सो तू (मेखले) हे मेखला ! (नः) हमें (मतिम्) मननशक्ति और (मेधाम्) निश्चय बुद्धि (आ) सब ओर से (धेहि) दान कर, (अथो) और भी (नः) हमें (तपः) योगाभ्यास (च) और (इन्द्रियम्) इन्द्र का चिह्न [पराक्रम वा परम ऐश्वर्य] (धेहि) दान कर ॥४॥
भावार्थभाषाः - जो श्रद्धालु, तपस्वी ऋषियों के समान शुभकर्म के लिये कटिबद्ध रहते हैं, वे ही मननशक्ति और निश्चल बुद्धि पाकर ऐश्वर्यवान् होते हैं ॥४॥
टिप्पणी: ४−(श्रद्धायाः) श्रत् सत्यम्−निघ० ३।१०। श्रद्धा श्रद्धानात्−निरु० ९।३०। सत्यं धीयतेऽत्र। षिद्भिदादिभ्योऽङ्। पा० ३।३।१०४। श्रत्+धा−अङ्, टाप्। आस्तिक्यबुद्धेः। विश्वासस्य (दुहिता) अ० ३।१०।१३। प्रपूरयित्री। पुत्रीसदृशहितकारिका वा (तपसः) योगाभ्यासात्। (अधि) अधिकम् (जाता) उत्पन्ना (स्वसा) अ० ६।१००।३। सुदीपयित्री। भगिनीतुल्यहिता (ऋषीणाम्)−म० २। सन्मार्गदर्शकानाम् (भूतकृताम्) आ० ६।१०८।४। सत्यकर्मणाम् (बभूव) (सा) त्वम् (नः) अस्मभ्यम् (मेखले) (मतिम्) मननशक्तिम् (आ) समन्तात् (धेहि) देहि (मेधाम्) अ० ६।१०८।२। निश्चलां बुद्धिम् (अथो) अपि च (तपः) (इन्द्रियम्) अ० १।३५।३। इन्द्रलिङ्गं वीर्यमैश्वर्यं वा (च) ॥