यो अङ्ग्यो॒ यः कर्ण्यो॒ यो अ॒क्ष्योर्वि॒सल्प॑कः। वि वृ॑हामो वि॒सल्प॑कं विद्र॒धं हृ॑दयाम॒यम्। परा॒ तमज्ञा॑तं॒ यक्ष्म॑मध॒राञ्चं॑ सुवामसि ॥
य: । अङ्ग्य: । य: । कर्ण्य: । य: । अक्ष्यो: । विऽसल्पक: । वि । वृहाम: । विऽसल्पकम् । विऽद्रधम् । हृदयऽआमयम् । परा । तम् । अज्ञातम् । यक्ष्मम् । अधराञ्चम् । सुवामसि ॥१२७.३॥
पण्डित क्षेमकरणदास त्रिवेदी
रोग के नाश का उपदेश।