वांछित मन्त्र चुनें

यत्रा॑ सु॒हार्दः॑ सु॒कृतो॒ मद॑न्ति वि॒हाय॒ रोगं॑ त॒न्वः स्वायाः॑। अश्लो॑णा॒ अङ्गै॒रह्रु॑ताः स्व॒र्गे तत्र॑ पश्येम पि॒तरौ॑ च पु॒त्रान् ॥

मन्त्र उच्चारण
पद पाठ

यत्र । सुऽहार्द: । सुऽकृत: । मदन्ति । विऽहाय । रोगम् । तन्व: । स्वाया: । अश्लोणा: । अङ्गै: । अह्रुता: । स्व:ऽगे । तत्र । पश्येम । पितरौ । च । पुत्रान्॥१२०.३॥

अथर्ववेद » काण्ड:6» सूक्त:120» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

घर में आनन्द बढ़ाने का उपदेश।

पदार्थान्वयभाषाः - (यत्र) जहाँ पर (सुहार्दः) सुन्दर हृदयवाले (सुकृतः) पुण्यात्मा लोग (स्वायाः) अपने (तन्वः) शरीर का (रोगम्) रोग (विहाय) छोड़ कर (मदन्ति) आनन्द भोगते हैं। (तत्र) वहाँ पर (स्वर्गे) स्वर्ग में (अश्लोणाः) बिना लँगड़े हुए और (अङ्गैः) अङ्गों से (अह्रुताः) बिना टेढ़े हुए हम (पितरौ) माता पिता (च) और (पुत्रान्) पुत्रों को (पश्येम) देखते रहें ॥३॥
भावार्थभाषाः - जिस घर में सब स्त्री-पुरुष सुकर्मी और नीरोग होवें, उस स्वर्ग में ही सब कुटुम्बी मिलकर सुख के स्थिर रखने का प्रयत्न करें ॥३॥ इस मन्त्र का पूर्वार्ध आ चुका है−अ० ३।२८।५ ॥
टिप्पणी: ३−(यत्र) यस्मिन् गृहे (सुहार्दः) अ० ३।२८।५। सुहृदयाः। अनुकूलकारिणः (सुकृतः) पुण्यकर्माणः (मदन्ति) हर्षन्ति (विहाय) परित्यज्य (रोगम्) व्याधिम् (तन्वः) शरीरस्य (स्वायाः) स्वकीयायाः (अश्लोणाः) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। इति श्रु श्रवणे गतौ च−न, यद्वा। श्रोण संघाते−अच्, रस्य लत्वम्, यद्वा श्लोण संघाते−अच्। अश्रोणाः। अपङ्गवः (अङ्गैः) शरीरावयवैः (अह्रुताः) अकुटिलगतयः (स्वर्गे) सुखविशेषे (पश्येम) साक्षात्कुर्य्याम (पितरौ) मातरं पितरं च। (च) (पुत्रान्) सुतान् ॥