यस्मा॑ ऋ॒णं यस्य॑ जा॒यामु॒पैमि॒ यं याच॑मानो अ॒भ्यैमि॑ देवाः। ते वाचं॑ वादिषु॒र्मोत्त॑रां॒ मद्देव॑पत्नी॒ अप्स॑रसा॒वधी॑तम् ॥
पद पाठ
यस्मै । ऋणम् । यस्य । जायाम् । उपऽऐमि । यम् । याचमान: । अभिऽऐमि । देवा: । ते । वाचम् । वादिषु: । मा । उत्तराम् । मत् । देवपत्नी इति देवऽपत्नी । अप्सरसौ । अधि । इतम् ॥११८.३॥
अथर्ववेद » काण्ड:6» सूक्त:118» पर्यायः:0» मन्त्र:3
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ऋण से छूटने का उपदेश।
पदार्थान्वयभाषाः - (देवाः) हे विद्वानो ! (यस्मै ऋणम्) जिस का मुझ पर उधार है, (यस्य) जिसकी (जायाम्) स्त्री के पास (उपैमि) मैं जाऊँ, अथवा (याचमानः) अनुचित माँगता हुआ मैं (यम्) जिसके पास (अभ्यैमि) पहुँचूँ। (ते) वे लोग (मत्) मुझसे (उत्तराम्) (वाचम्) बढ़ कर बात (मा वादिषुः) न बोलें, (देवपत्नी) हे दिव्य पदार्थों की रक्षा करनेवाली (अप्सरसौ) आकाश में चलनेवाली, सूर्य और पृथिवी ! (अधीतम्) [यह बात] स्मरण रक्खो ॥३॥
भावार्थभाषाः - संसार के मनुष्य स्मरण रक्खें कि ऋण लेने, व्यभिचार करने और अनुचित माँगने से प्रशंसा में बट्टा लगता है, इस से पुरुषार्थ करके कीर्ति बढ़ावें ॥३॥
टिप्पणी: ३−(यस्मै) उत्तमर्णाय (ऋणम्) प्रतिदेयं धनम् (यस्य) (जायाम्) भार्य्याम् (उपैमि) उपगच्छामि व्यभिचारेण (यम्) (याचमानः) अनुचितं प्रार्थयमानः (अभ्यैमि) प्राप्नोमि (देवाः) हे विद्वांसः (ते) त्रयो जनाः (वाचम्) वाणीम् (मा वादिषुः) मा ब्रुवन्तु (उत्तराम्) उत्कृष्टतराम्। प्रतिकूलमित्यर्थः (मत्) मत्तः (देवपत्नी) देवपत्न्यो देवानां पत्न्यः−निरु० १३।४४। हे दिव्यपदार्थानां पालयित्र्यौ (अप्सरसौ)−म० १। अन्तरिक्षे सरन्त्यौ द्यावापृथिव्यौ (अधीतम्) इक् स्मरणे। अधिकं स्मरतम् ॥