मा ज्ये॒ष्ठं व॑धीद॒यम॑ग्न ए॒षां मू॑ल॒बर्ह॑णा॒त्परि॑ पाह्येनम्। स ग्राह्याः॒ पाशा॒न्वि चृ॑त प्रजा॒नन्तुभ्यं॑ दे॒वा अनु॑ जानन्तु॒ विश्वे॑ ॥
मा । ज्येष्ठम् । वधीत् । अयम् । अग्ने । एषाम् । मूलऽबर्हणात् । परि । पाहि । एनम् । स: । ग्राह्या: । पाशान् । वि । चृत । प्रऽजानन् । तुभ्यम् । देवा: । अनु । जानन्तु । विश्वे ॥११२.१॥
पण्डित क्षेमकरणदास त्रिवेदी
कुल की रक्षा का उपदेश।