वांछित मन्त्र चुनें

अ॒ग्निष्टे॒ नि श॑मयतु॒ यदि॑ ते॒ मन॒ उद्यु॑तम्। कृ॑णोमि वि॒द्वान्भे॑ष॒जं यथानु॑न्मदि॒तोऽस॑सि ॥

मन्त्र उच्चारण
पद पाठ

अग्नि: । ते । नि । शमयतु । यदि । ते ।मन: । उत्ऽयुतम् । कृणोमि। व‍िद्वान् । भेषजम् । यथा । अनुत्ऽमदित: । अससि ॥१११.२॥

अथर्ववेद » काण्ड:6» सूक्त:111» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मानसविकार के नाश का उपदेश।

पदार्थान्वयभाषाः - (अग्निः) विद्वान् पुरुष (ते) तेरे [मन को] (नि शमयतु) शान्त करता रहे, (यदि) जब (ते मनः) तेरा मन (उद्युतम्) व्याकुल होवे। (विद्वान्) विद्वान् मैं (भेषजम्) औषध (कृणोमि) करता हूँ, (यथा) जिससे तू (अनुन्मदितः) उन्मादरहित (अससि) होवे ॥२॥
भावार्थभाषाः - मनुष्य विद्वानों से शिक्षा पाकर अपनी रोगनिवृत्ति करे ॥२॥
टिप्पणी: २−(अग्निः) विद्वान् पुरुषः (ते) तव (मनः) (नि शमयतु) नितरां शान्तं करोतु (यदि) सम्भावनायाम् (ते मनः) (उद्युतम्) युञ् बन्धने−क्त। उद्विग्नम् (कृणोमि) करोमि (विद्वान्) विज्ञोऽहम् (भेषजम्) औषधम् (यथा) येन प्रकारेण (अनुन्मदितः) चित्तभ्रमरहितः (अससि) भूयाः ॥