वांछित मन्त्र चुनें

उ॒त पु॒त्रः पि॒तरं॑ क्ष॒त्रमी॑डे ज्ये॒ष्ठं म॒र्याद॑मह्वयन्त्स्व॒स्तये॑। दर्श॒न्नु ता व॑रुण॒ यास्ते॑ वि॒ष्ठा आ॒वर्व्र॑ततः कृणवो॒ वपूं॑षि ॥

मन्त्र उच्चारण
पद पाठ

उत । पुत्र: । पितरम् । क्षत्रम् । ईडे । ज्येष्ठम् । मर्यादम् । अह्वयन् । स्वस्तये । दर्शन् । नु । ता: । वरुण । या:। ते । विऽस्था: । आऽवर्व्रतत: । कृणव: । वपूंषि ॥१.८॥

अथर्ववेद » काण्ड:5» सूक्त:1» पर्यायः:0» मन्त्र:8


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्म विद्या का उपदेश।

पदार्थान्वयभाषाः - (पुत्रः) मैं पुत्र (पितरम्) पालनकर्ता पिता परमेश्वर से (उत) ही (क्षत्रम्) धन (ईडे) माँगता हूँ। (ज्येष्ठम्) अत्यन्त वृद्ध (मर्यादम्) मर्यादावाले परमात्मा को (स्वस्तये) आनन्द के लिये (अह्वयन्) [ऋषियों ने] आवाहन किया है। (वरुण) हे वरणीय परमेश्वर ! (याः) जो (ते) तेरी (विष्ठाः) व्यवस्थायें हैं (ताः) उन्हें (नु) शीघ्र (दर्शन्) वे लोग देखें, (आवर्व्रततः) यथावत् अनेक प्रकार घूमनेवाले [संसार] के (वपूंषि) रूपों को (कृणवः) तू प्रकट कर ॥८॥
भावार्थभाषाः - जैसे मनुष्य पिता से मर्यादापूर्वक पैतृक धन प्राप्त करके प्रसन्न होते हैं, वैसे ही सब लोग परमात्मा के रचे पदार्थों से उपकार लेकर आनन्द पावें ॥८॥
टिप्पणी: ८−(उत) निश्चयेन (पुत्रः) अ० १।११।५। कुलशोधकः सुतः (पितरम्) पातारम्। जनकम् (क्षत्रम्) अ० २।१५।४। धनम्−निघ० २।१०। (ईडे) याचामि−निरु० ७।१५। याचे (ज्येष्ठम्) प्रवृद्धतमम् (मर्यादम्) मर्यादा−अर्शआद्यच्। मर्यादावन्तम्। परमेश्वरम् (अह्वयन्) ह्वेञ्−लङ्। आहूतवन्तः कवयः (स्वस्तये) अ० १।३०।२। आनन्दाय (दर्शन्) पश्यन्तु (नु) क्षिप्रम् [ताः] (वरुण) हे वरणीय परमात्मन् (याः) (ते) तव (विष्ठाः) अ० ४।१।१। व्यवस्थाः (आवर्व्रततः) आङ्+वृतु वर्तने। यङ्लुगन्तात्−शतृ, छान्दसं रूपम्। आवर्वृततः। समन्ताद् बहुवर्तनशीलस्य संसारस्य (कृणवः) कृवि हिंसाकरणयोः गतौ च−लेटि मध्यमपुरुषः लेटोऽडाटौ। पा० ३।४।९४। इति अट्। इतश्च लोपः परस्मैपदेषु। पा० ३।४।९७। इति इकारलोपः। त्वम् आविष्कुर्याः (वपूंषि) म० २। रूपाणि ॥