वांछित मन्त्र चुनें

तदू॒ षु ते॑ म॒हत्पृ॑थुज्म॒न्नमः॑ क॒विः काव्ये॑ना कृणोमि। यत्स॒म्यञ्चा॑वभि॒यन्ता॑व॒भि क्षामत्रा॑ म॒ही रोध॑चक्रे वावृ॒धेते॑ ॥

मन्त्र उच्चारण
पद पाठ

तत् । ऊं इति । सु । ते । महत् । पृथुऽज्मन् । नम: । कवि: । काव्येन । कृणोमि । यत् । सम्यञ्चौ । अभिऽयन्तौ । अभि । क्षाम् । अत्र ।मही इति । रोधचक्रे इति रोधऽचक्रे । ववृधेते इति॥१.५॥

अथर्ववेद » काण्ड:5» सूक्त:1» पर्यायः:0» मन्त्र:5


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्म विद्या का उपदेश।

पदार्थान्वयभाषाः - (तत्) उस कारण से (पृथुज्मन्) हे विस्तृत गतिवाले परमात्मन् ! (ते) तेरे लिये (उ)। ही (कविः) मैं बुद्धिमान् पुरुष (काव्येन) बुद्धिमत्ता के साथ (सु) सुन्दर रीति से (महत्) बहुत-बहुत (नमः) नमस्कार (कृणोमि) करता हूँ। (यत्) जिससे (सम्यञ्चौ) आपस में मिले हुए (अभियन्तौ) सब ओर गतिवाले [दोनों लोक अर्थात्] (मही) विशाल (रोधचक्रे) [प्राणियों को] रोकने के कर्मवाले [सूर्य पृथिवी अर्थात् ऊँचे-नीचे लोक] (क्षाम् अभि) हमारे निवास, उद्योग, वा ऐश्वर्य के लिये (अत्र) यहाँ पर (वावृधेते) बढ़ते हैं ॥५॥
भावार्थभाषाः - मनुष्य विज्ञानपूर्वक परम पिता जगदीश्वर का धन्यवाद करें, उसने हमारे ऐश्वर्य के लिये संसार में अनेक पदार्थ रचे हैं ॥५॥
टिप्पणी: ५−(तत्) तस्मात्कारणात् (उ) निश्चयेन (सु) सुन्दररीत्या (ते) तुभ्यम् (महत्) बृहत् (पृथुज्मन्) सर्वधातुभ्यो मनिन्। उ० ४।१४५। इति पृथु+अज गतिक्षेपणयोः−मनिन्, अकारलोपः। हे परिज्मन् विस्तीर्णगते परमात्मन् (नमः) नमस्कारम् (कविः) अहं मेधावी (काव्येन) अ० ४।१।६। स्तुत्यकर्मणा। यद्वा। गुणवचनब्राह्मणादिभ्यः कर्मणि च। पा० ४।१।१२४। इति कवि−ष्यञ्। कविकर्मणा। बुद्धिमत्तया। (कृणोमि) करोमि (यत्) यस्मात्कारणात् सम्यञ्चौ संगच्छमानौ (अभियन्तौ) सर्वतो गच्छन्तौ द्वौ लोकौ (अभि) प्रति (क्षाम्) अन्येष्वपि दृश्यते पा० ३।२।१०—१। इति क्षि निवासगत्योः, ऐश्वर्ये च−ड, टाप्। क्षा पृथिवीनाम−निघ० १।१। निवासं गतिम् ऐश्वर्यं वा। (अत्र) अस्मिन् लोके (मही) महत्यौ (रोधचक्रे) भावे। पा० ३।३।१८। रुधिर् आवरणे−घञ्। घञर्थे कविधानम्। वा० पा० ३।३।५८। इति डुकृञ् करणे−क। द्वित्वम्। चक्रं करणम्। रोधचक्राः, नदीनाम−निघ० १,१३। रोधस्य प्राणिनिरोधस्य चक्रं करणं कृतिर्ययोस्ते द्यावापृथिव्यौ (ववृधेते) वृधु वृद्धौ लटि छान्दसं रूपम्। वर्धेते ॥