यस्ते॒ शोका॑य त॒न्वं॑ रि॒रेच॒ क्षर॒द्धिर॑ण्यं॒ शुच॒योऽनु॒ स्वाः। अत्रा॑ दधेते अ॒मृता॑नि॒ नामा॒स्मे वस्त्रा॑णि॒ विश॒ एर॑यन्ताम् ॥
पद पाठ
य: । ते । शोकाय । तन्वम् । रिरेच । क्षरत् । हिरण्यम् । शुचय: । अनु । स्वा: । अत्र । दधेते इति ।अमृतानि। नाम । अस्मे इति । वस्त्राणि । विश: । आ । ईरयन्ताम् ॥१.३॥
अथर्ववेद » काण्ड:5» सूक्त:1» पर्यायः:0» मन्त्र:3
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्म विद्या का उपदेश।
पदार्थान्वयभाषाः - [हे परमात्मन् !] (यः) जिस पुरुष ने (ते) तेरा (शोकाय) प्रकाश पाने के लिये (तन्वम्) अपना शरीर (रिरेच) जोड़ दिया है, [क्योंकि] (शुचयः) शुद्धस्वभाव (स्वाः) बन्धुलोग (क्षरत्) चलते हुए (हिरण्यम्) कमनीय ज्योतिःस्वरूप परमात्मा के (अनु) पीछे-पीछे वर्तमान रहते हैं। (अत्र) इस पुरुष में ही (अमृतानि) अमर (नाम=नामानि) नामों को (दधेते) वे दोनों [सूर्य पृथ्वी लोक] धरते हैं। (विशः) सब प्रजायें (अस्मे) हमारे लिये (वस्त्राणि) ओढ़ने वा निवासस्थान आदि (आ ईरयन्ताम्) लावें ॥३॥
भावार्थभाषाः - जो पुरुष प्रकाशमय परमात्मा के स्वरूप जानने में अपना सामर्थ्य लगाते हैं, वे संसार के सब पदार्थों से उपकार लेकर यश पाते और सुख भोगते हैं ॥३॥
टिप्पणी: ३−(यः) पुरुषः (ते) तव (शोकाय) अ० ४।१४।१। प्रकाशप्राप्तये (तन्वम्) अ० १।१।१। स्वशरीरम् (रिरेच) रिच वियोजनसम्पर्चनयोः−लिट्, चुरा०। संपृक्तवान्। संयोजितवान् (क्षरत्) संचलत्। (हिरण्यम्) अ० १।९।२। कमनीयं तेजःस्वरूपं परमात्मानम् (शुचयः) अ० १।३३।१। शुद्धस्वभावाः (अनु) अनुसृत्य वर्तन्ते (स्वाः) अ० १।१९।३। स्वमज्ञातिधनाख्यायाम्। पा० १।१।३५। ज्ञातयः। बन्धवः (अत्र) अस्मिन् पुरुषे (दधेते) धरतः−उभे द्यावापृथिव्यौ (अमृतानि) अमराणि। अनश्वराणि (नाम) अ० १।२४।३। नामानि यशांसि (अस्मे) अस्मभ्यम् (वस्त्राणि) सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। इति वस आच्छादने वा वस निवासे−ष्ट्रन्। वस्त्रं वस्तेः−निरु० ४।२४। वसनानि। निवासस्थानादीनि वा (विशः) मनुष्याः−निघ० २।३। प्रजाः (आ ईरयन्ताम्) आगमयन्तु ॥