वांछित मन्त्र चुनें

ए॒ष य॒ज्ञानां॒ वित॑तो॒ वहि॑ष्ठो विष्टा॒रिणं॑ प॒क्त्वा दिव॒मा वि॑वेश। आ॒ण्डीकं॒ कुमु॑दं॒ सं त॑नोति॒ बिसं॑ शा॒लूकं॒ शफ॑को मुला॒ली। ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥

मन्त्र उच्चारण
पद पाठ

एष: । यज्ञानाम् । विऽतत: । वहिष्ठ: । विष्टारिणम् । पक्त्वा । दिवम् । आ । विवेश । आण्डीकम् । कुमुदम् । सम् । तनोति । बिसम् । शालूकम् । शफक: । मुलाली । एता: ।त्वा । धारा: । उप । यन्तु । सर्वा: । स्व:ऽगे । लोके । मधुऽमत् । पिन्वमाना: । उप । त्वा । तिष्ठन्तु । पुष्करिणी: । सम्ऽअन्ता: ॥३४.५॥

अथर्ववेद » काण्ड:4» सूक्त:34» पर्यायः:0» मन्त्र:5


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मविद्या का उपदेश।

पदार्थान्वयभाषाः - (एषः) यह (यज्ञानाम्) उत्तम कर्मों के बीच (विततः) फैला हुआ (बहिष्ठः) अत्यन्त बहुत शुभ गुणोंवाला पुरुष (विष्टारिणम्) बड़े विस्तारवाले परमात्मा को [हृदय में] (पक्त्वा) पक्का, दृढ़, करके (दिवम्) प्रकाशस्वरूप परमात्मा में (आ विवेश) प्रविष्ट हुआ है। (शफकः) शान्ति की कामना करनेवाला, (मुलाली) कर्मफल के रोपण, उत्पत्ति को सुधारनेवाला पुरुष (आण्डीकम्) प्राप्तियोग्य (कुमुदम्) पृथिवी में आनन्द करनेवाली वस्तु को, (बिसम्) बलदायक गुण को (शालूकम्) वेगशील कर्म को (सम्) यथावत् (तनोति) फैलाता है। (एताः) ये (सर्वाः) सब (धाराः) धारणशक्तियाँ (स्वर्गे लोके) स्वर्ग लोक में (मधुमत्) मधु नाम ज्ञान की पूर्णता से (त्वा) तुझको (पिन्वमानाः) सींचती हुई (उप) आदर से (यन्तु) मिलें और (समन्ताः) सम्पूर्ण (पुष्करिणीः=०-ण्यः) पोषणवती शक्तियाँ (त्वा) तुझ में (उप तिष्ठन्तु) उपस्थित होवें ॥५॥
भावार्थभाषाः - पुरुषार्थी योगी जन परमात्मा की महिमा में लवलीन होकर मधुमती नाम प्रजा की प्राप्ति से संसार का पूरा उपकार करता है ॥५॥
टिप्पणी: ५−(एषः) दृश्यमानः पुरुषः (यज्ञानाम्) यजनीयानां कर्मणां मध्ये (विततः) विस्तृतः (बहिष्ठः) अतिशायने तमबिष्ठनौ। पा० ५।३।५५। इति बहु-इष्ठन्। टेः। पा० ६।४।१५५। इति टिलोपः। अतिशयेन बहुशुभगुणोपेतः (विष्टारिणम्) म० १। विस्तारवन्तम् (पक्त्वा) परिपक्वं हृदये दृढं कृत्वा (दिवम्) प्रकाशमानं परमात्मानम् (आ विवेश) प्रविष्टवान् (आण्डीकम्) ञमन्ताड् डः। उ० १।११४। इति अम गतौ-ड। ईकञ् छन्दसि। वा० पा० ४।१।८५। इति अण्ड-ईकञ् बाहुलकात्। प्राप्तियोग्यम्, (कुमुदम्) इगुपध०। पा० ३।१।१३५। इति कु+मुद हर्षे-क। कौ भूमौ मोदते। पृथिव्यां मोदकरं वस्तु (सम्) सम्यक् (तनोति) विस्तारयति (बिसम्) बिस प्रेरणे, दिवा०-क। प्रेरकम्। बलकरं वस्तु (शालूकम्) शलिमण्डिभ्यामूकण्। उ० ४।४२। इति शल गतौ-ऊकण्। वेगकरं वस्तु (शफकः) शमु उपशमे-अच्, मस्य फः। इति शब्दस्तोममहानिधिः। कमु कान्तौ-ड। शफं शान्तिं निवृत्तिं कामयते स शफकः। शान्तिकामः (मुलाली) मुल रोपणे-क। सुप्यजातौ णिनिस्ताच्छील्ये। पा० ३।२।७८। इति मुल+अल भूषणपर्याप्तिवारणेषु-णिनि। मुलं रोपणं कर्मफलजननम् अलति भूषयतीति मुलाली। सत्पुरुषः (एताः) (त्वा) त्वां पुरुषम् (धाराः) धारणशक्तयः। (उप) समीपे (यन्तु) गच्छन्तु (सर्वाः) सकलाः (स्वर्गे) म० २। सुष्ठु अर्जनीये पुण्ये (लोके) दर्शनीये स्थाने (मधुमत्) फलिपाटिनमिमनि०। उ० १।१८। इति मन ज्ञाने-उ, नस्य धः। यथा तथा मधुमत्तया ज्ञानवत्तया (पिन्वमानाः) पिवि-सेचने शानच्। सिञ्चन्त्यः (उप तिष्ठन्तु) उपस्थिताः संगता भवन्तु (पुष्करिणीः) पुषः कित्। उ० ४।४। इति पुष पुष्टौ-करन्। अत इनिठनौ। पा० ५।२।११५। इति पुष्कर-इनि। पुष्कराणि पोषणानि सन्ति यत्र पुष्करिण्यः पोषणवत्यः शक्तयः (समन्ताः) सम्पूर्णाः ॥