वांछित मन्त्र चुनें

तं व॒र्धय॑न्तो म॒तिभिः॑ शि॒वाभिः॑ सिं॒हमि॑व॒ नान॑दतं स॒धस्थे॑। बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे॑भरे॒ अनु॑ मदेम जि॒ष्णुम् ॥

मन्त्र उच्चारण
पद पाठ

तम् । वर्धयन्त: । मतिऽभि: । शिवाभि: । सिंहम्ऽइव । नानदतम् । सधऽस्थे ॥ बृहस्पतिम् । वृषणम् । शूरऽसातौ । भरेऽभरे । अनु । मदेम । जिष्णुम् ॥९१.९॥

अथर्ववेद » काण्ड:20» सूक्त:91» पर्यायः:0» मन्त्र:9


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा के गुणों का उपदेश।

पदार्थान्वयभाषाः - (शिवाभिः) कल्याणी (मतिभिः) बुद्धियों के साथ (नानदतम्) बल से दहाड़ते हुए (सिंहम् इव) सिंह के समान (वृषणम्) बलवान् (जिष्णुम्) विजयी (तम्) उस (बृहस्पतिम्) बृहस्पति [बड़े ब्रह्माण्डों के स्वामी परमेश्वर] को (सधस्थे) सभास्थान में (वर्धयन्तः) बढ़ाते हुए हम (शूरसातौ) शूरों करके सेवन योग्य (भरेभरे) सङ्ग्राम-सङ्ग्राम में (अनु मदेम) आनन्द पाते रहें ॥९॥
भावार्थभाषाः - मनुष्य आपस में मिलकर परमात्मा के गुणों को निश्चय करके आत्मा की उन्नति करते हुए आनन्द पावें ॥९॥
टिप्पणी: ९−(तम्) प्रसिद्धम् (वर्धयन्तः) स्तुवन्तः (मतिभिः) बुद्धिभिः (शिवाभिः) कल्याणीभिः (सिंहम्) (इव) (नानदतम्) भृशं शब्दायमानम् (सधस्थे) सभास्थाने (बृहस्पतिम्) बृहतां ब्रह्माण्डानां स्वामिनम् (वृषणम्) बलवन्तम् (शूरसातौ) शूरैः संभजनीये (भरेभरे) रणे रणे (अनु) निरन्तरम् (मदेम) हृष्येम (जिष्णुम्) विजेतारम् ॥९॥