य॒दा वाज॒मस॑नद्वि॒श्वरू॑प॒मा द्याम॑रुक्ष॒दुत्त॑राणि॒ सद्म॑। बृह॒स्पतिं॒ वृष॑णं व॒र्धय॑न्तो॒ नाना॒ सन्तो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ॥
पद पाठ
यदा । वाजम् । असनत् । विश्वऽरूपम् । आ । द्याम् । अरुक्षत् । उत्ऽतराणि । सद्म ॥ बृहस्पतिम् । वृषणम् । वर्धयन्त: । नाना । सन्त: । बिभ्रत: । ज्योति: । आसा ॥९१.१०॥
अथर्ववेद » काण्ड:20» सूक्त:91» पर्यायः:0» मन्त्र:10
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परमात्मा के गुणों का उपदेश।
पदार्थान्वयभाषाः - (यदा) जब उस [परमात्मा] ने (विश्वरूपम्) सब संसार में रूप करनेवाले (वाजम्) बल को (असनत्) सेवन किया, और (द्याम्) चमकते हुए सूर्य को और (उत्तराणि) अधिक उत्तम (सद्म) लोकों को (आ अरुक्षत्) ऊँचा किया। [तब] (वृषणम्) उस बलवान् (बृहस्पतिम्) बृहस्पति [बड़े ब्रह्माण्डों के स्वामी परमात्मा] को (आसा) मुख से (नाना) नाना प्रकार (वर्धयन्तः) बढ़ाते हुए (सन्ताः) सन्त लोग [सत्पुरुष] (ज्योतिः) ज्योति को (बिभ्रतः) धारण करनेवाले [हुए हैं] ॥१०॥
भावार्थभाषाः - जब परमात्मा सूर्य आदि लोकों को उत्पन्न करके अपना सामर्थ्य दिखाता है, तब योगी जन उस जगदीश्वर की स्तुति करते हुए अपने आत्मा को प्रकाशयुक्त करते हैं ॥१०॥
टिप्पणी: १०−(यदा) (वाजम्) बलम् (असनत्) सेवितवान् (विश्वरूपम्) सर्वस्मिन् संसारे रूपं यस्मात् तम् (द्याम्) प्रकाशमानं सूर्यम् (आ अरुक्षत्) आरोहितवान्। उत्पादितवानित्यर्थः (उत्तराणि) उत्तमतराणि (सद्म) सद्मानि। लोकान् (बृहस्पतिम्) परमात्मानम् (वृषणम्) बलवन्तम् (वर्धयन्तः) स्तुवन्तः (नाना) विविधप्रकारेण (सन्तः) सत्पुरुषाः (बिभ्रतः) धारयन्तः (ज्योतिः) प्रकाशम् (आसा) आस्येन। मुखेन ॥