वांछित मन्त्र चुनें

यद्यो॒धया॑ मह॒तो मन्य॑माना॒न्साक्षा॑म॒ तान्बा॒हुभिः॒ शाश॑दानान्। यद्वा॒ नृभि॒र्वृत॑ इन्द्राभि॒युध्या॒स्तं त्वया॒जिं सौ॑श्रव॒सं ज॑येम ॥

मन्त्र उच्चारण
पद पाठ

यत् । योधया: । महत: । मन्यमानान् । साक्षाम । तान् । बाहुभि: । शाशदानान् ॥ यत् । वा । नृऽभि । वृत: । इन्द्र । अभिऽयुध्या: । तम् । त्वया । आजिम‌् । सौश्रवसम् । जयेम ॥८७.४॥

अथर्ववेद » काण्ड:20» सूक्त:87» पर्यायः:0» मन्त्र:4


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

पुरुषार्थी के लक्षण का उपदेश।

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [महाप्रतापी शूर] (यत्) जो तू (महतः मन्यमानान्) अपने को बड़े माननेवालों से [हमको] (योधयाः) लड़ावे, (तान्) उन (शाशदानान्) तीक्ष्ण स्वभाववालों को (बाहुभिः) अपनी भुजाओं से (साक्षाम) हम हरावें। (यत् वा) अथवा (नृभिः) नरों से (वृतः) अङ्गीकार किया हुआ (अभियुध्याः) तू युद्ध करे, (त्वया) तेरे साथ [होकर] (तम्) उस (सौश्रवसम्) बड़े यश वा अन्न देनेवाले (आजिम्) सङ्ग्राम को (जयेम) हम जीतें ॥४॥
भावार्थभाषाः - मनुष्य सत्य सङ्कल्प के साथ आप कर्मकुशल होकर और दूसरों को कर्मकुशल बनाकर संसार में विजय प्राप्त करें ॥४॥
टिप्पणी: ४−(यत्) यदि (योधयाः) योधयेः। युद्धं कारयेः-अस्मान् (महतः) पूजनीयान् (मन्यमानान्) जानतः पुरुषान् (साक्षाम) सहेम। अभिभवेम (तान्) (बाहुभिः) भुजैः (शाशदानान्) अ० १।१०।१। शद्लृ शातने-यङ्लुकि शानच्। तीक्ष्णस्वभावान् (यत् वा) यद्वा। अथवा (नृभिः) नेतृभिः (वृतः) स्वीकृतः (इन्द्र) महाप्रतापिन् शूर (अभियुध्याः) अभियुध्येथाः (तम्) प्रसिद्धम् (त्वया) शूरेण सह (आजिम्) सङ्ग्रामम् (सौश्रवसम्) शोभनस्य श्रवसो यशसेऽन्नस्य वा हेतुम् (जयेम) ॥