वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: वसिष्ठः छन्द: प्रगाथः स्वर: सूक्त-५९

मन्त्र॒मख॑र्वं॒ सुधि॑तं सु॒पेश॑सं॒ दधा॑त य॒ज्ञिये॒ष्वा। पू॒र्वीश्च॒न प्रसि॑तयस्तरन्ति॒ तं य इन्द्रे॒ कर्म॑णा॒ भुव॑त् ॥

मन्त्र उच्चारण
पद पाठ

मन्त्रम् । अखर्वम् । सुऽधितम् । सुऽपेशसम् । दधात । यज्ञियेषु । आ ॥ पूर्वी: । चन । प्रऽसितय: । तरन्ति । तम् । य: । इन्द्रे । कर्मणा । भुवत् ॥५९.४॥

अथर्ववेद » काण्ड:20» सूक्त:59» पर्यायः:0» मन्त्र:4


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

३-४ राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - [हे मनुष्यो !] (अखर्वम्) अनीच [धार्मिक], (सुधितम्) अच्छे प्रकार व्यवस्था किये गये, (सुपेशसम्) बहुत सोना आदि धन करनेवाले (मन्त्रम्) मन्त्र [मन्तव्य विचार] को (यज्ञियेषु) पूजायोग्य व्यवहारों में (आ) सब ओर से (दधात्) धारण करो। (पूर्वीः) प्राचीन (चन) ही (प्रसितयः) उत्तम प्रबन्ध (तम्) उस मनुष्य को (तरन्ति) पार लगाते हैं, (यः) जो पुरुष (इन्द्रे) इन्द्र [बड़े ऐश्वर्यवाले राजा] के निमित्त (कर्मणा) क्रिया के साथ (भुवत्) होवे ॥४॥
भावार्थभाषाः - राजा और विद्वान् जन मिलकर गूढ़ विचारों के साथ सर्वहितकारी काम करके आपस में प्रीति बढ़ावें ॥४॥
टिप्पणी: ४−(मन्त्रम्) मन्तव्यं विचारम् (अखर्वम्) खर्व गतौ दर्पे च-अच्। अनीचम्। धार्मिकम् (सुधितम्) दधातेः-क्त। सुविहितम्। सुष्ठु व्यवस्थापितम् (सुपेशसम्) पेशो हिरण्यनाम-निघ० १।२। सुपेशांसि शोभनानि सुवर्णादिधनानि यस्मात् तम् (दधात) धत्त (यज्ञियेषु) पूजार्हेषु व्यवहारेषु (आ) समन्तात् (पूर्वीः) प्राचीनाः (चन) अपि (प्रसितयः) उत्तमप्रबन्धाः (तरन्ति) पारयन्ति (तम्) पुरुषम् (यः) (इन्द्रे) ऐश्वर्यवति राजनि निमित्ते (कर्मणा) सत्क्रियया (भुवत्) भवेत् ॥