यमि॑न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम्। यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे॑हि॒ मा प॒णौ ॥
पद पाठ
यम् । इन्द्र । दधिषे । त्वम् । अश्वम् । गाम् । भागम् । अव्ययम् ॥ यजमाने । सुन्वति । दक्षिणाऽवति । तस्मिन् । तम् । धेहि । मा । पणौ ॥५५.३॥
अथर्ववेद » काण्ड:20» सूक्त:55» पर्यायः:0» मन्त्र:3
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (यम्) जिस (अश्वम्) घोड़े को, (गाम्) गौ को और (अव्ययम्) अक्षय (भागम्) सेवनीय धन को (त्वम्) तू (दधिषे) धारण करता है, (तम्) उसको (तस्मिन्) उस (सुन्वति) तत्त्व निचोड़नेवाले, (दक्षिणावति) दक्षिणा [प्रतिष्ठा के दान] वाले (यजमाने) यजमान [यज्ञ श्रेष्ठ कर्म करनेवाले] में (धेहि) धारण कर और (पणौ) कुव्यवहारी में (आ) नहीं ॥३॥
भावार्थभाषाः - राजा को योग्य है कि अवसर विचारकर घोड़े, गौएँ, सुवर्ण आदि धन दक्षिणा देकर सुपात्रों का सन्मान करे ॥३॥
टिप्पणी: ३−(यम्) भागम् (इन्द्र) हे परमैश्वर्यवन् राजन् (दधिषे) लडर्थे लिट्। धत्से। धरसि (त्वम्) (अश्वम्) (गाम्) धेनुम् (भागम्) सेवनीयं धनम् (अव्यययम्) अक्षयम् (यजमाने) श्रेष्ठकर्मकर्तरि (सुन्वति) तत्त्वरसं संस्कुर्वाणि (दक्षिणावति) प्रतिष्ठाधनयुक्ते (तस्मिन्) (तम्) भागम् (धेहि) धारय (मा) निषेधे (पणौ) कुव्यवहारिणे असुरे ॥