वांछित मन्त्र चुनें

त्वं धृ॑ष्णो धृष॒ता वी॒तह॑व्यं॒ प्रावो॒ विश्वा॑भिरू॒तिभिः॑ सु॒दास॑म्। प्र पौरु॑कुत्सिं त्र॒सद॑स्युमावः॒ क्षेत्र॑साता वृत्र॒हत्ये॑षु पू॒रुम् ॥

मन्त्र उच्चारण
पद पाठ

त्वम् । धृष्णो इति । धृषता । वीतऽहव्यम् । प्र । आव: । विश्वाभि: । ऊतिऽभि: । सुऽदासम् ॥ प्र । पौरुऽकुत्सिम् । त्रसदस्युम् । आव: । क्षेत्रऽसाता । वृत्रऽहत्येषु । पूरुम् ॥३७.३॥

अथर्ववेद » काण्ड:20» सूक्त:37» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के धर्म का उपदेश।

पदार्थान्वयभाषाः - (धृष्णो) हे निडर पुरुष ! (त्वम्) तूने (धृषता) निडरपन से (विश्वाभिः) सब (ऊतिभिः) रक्षाओं के साथ (वीतहव्यम्) पाने योग्य पदार्थ के पानेवाले, (सुदासम्) बड़े दाता को (प्र) अच्छे प्रकार (आवः) बचाया है। और (पौरुकुत्सिम्) बहुत वज्र आदि हथियारों के जाननेवाले के सन्तान, (त्रसदस्युम्) डाकुओं के डरानेवाले (पूरुम्) मनुष्य को (क्षेत्रसाता) रणक्षेत्र के विभाग में (वृत्रहत्येषु) शत्रुओं के मारनेवाले सङ्ग्रामों के बीच (प्र) अच्छे प्रकार (आवः) तृप्त किया है ॥३॥
भावार्थभाषाः - राजा लोग सङ्ग्राम में शत्रुओं को जीतनेवाले, शस्त्रविद्या में चतुर वीरों का सत्कार करके सुखी होवें ॥३॥
टिप्पणी: ३−(त्वम्) (धृष्णो) अ०१।१३।४। ञिधृषा प्रागल्भ्ये-क्नु। हे निर्भय (धृषता) अ०२०।३६।६। प्रागल्भ्येन (वीतहव्यम्) अ०६।१३७।१। प्राप्तप्राप्तव्यपदार्थम् (प्र) प्रकर्षेण (आवः) रक्षितवानसि (विश्वाभिः) सर्वाभिः (ऊतिभिः) रक्षाभिः (सुदासम्) बहुदातारम् (प्र) (पौरुकुत्सिम्) अत इञ्। पा०४।१।९। पुरुकुत्स-इञ्। पुरुकुत्सस्य बहुवज्रादिशस्त्रास्त्रविदः पुरुषस्य सन्तानम् (त्रसदस्युम्) त्रसी उद्वेगे-अच्। त्रसा उद्विग्ना भयभीता दस्यवः साहसिका यस्मात् तम् (आवः) अव तृप्तौ। तर्पितवानसि (क्षेत्रसाता) क्षेत्रसातौ। रणक्षेत्रविभागे (वृत्रहत्येषु) अ०२०।२१।६। शत्रुहननेषु सङ्ग्रामेषु (पूरुम्) पॄभिदिव्यधि०। उ०१।२३। पूरी आप्यायने कु। मनुष्यम्-निघ०२।३॥