वांछित मन्त्र चुनें

तन्नो॒ वि वो॑चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि॑न्द्र। कस्ते॑ भा॒गः किं वयो॑ दुध्र खिद्वः॒ पुरु॑हूत पुरूवसोऽसुर॒घ्नः ॥

मन्त्र उच्चारण
पद पाठ

तत् । न: । वि । वोच: । यदि । ते । पुरा । चित् । जरितार: । आनशु: । सुम्नम् । इन्द्र ॥ क: । ते । भाग: । किम् । वय:। दुध्र । खिद्व: । पुरुऽहूत । पुरुवसो इति पुरुऽवसो । असुरऽघ्न: ॥३६.४॥

अथर्ववेद » काण्ड:20» सूक्त:36» पर्यायः:0» मन्त्र:4


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र [बड़े ऐश्वर्यवाले पुरुष] (तत्) यह बात (नः) हम को (वि) विशेष करके (वोचः) तू बता−(यदि) यदि (ते) तेरे (जरितारः) गुण बखाननेवालों ने (पुरा चित्) पहिले भी (सुम्नम्) सुख को (आनशुः) पाया है। (दुध्र) हे पूर्ण ! (खिद्वः) हे शत्रुओं के खेद देनेवाले ! (पुरुहूत) हे बहुतों से बुलाये गये ! (पुरूवसो) हे बहुत धनवाले (ते) तेरा (कः) कौन सा (असुरघ्नः) असुरों [दुष्टों का] नाश करनेवाला (भागः) भाग है और (किम्) कौन (वयः) जीवन है ॥४॥
भावार्थभाषाः - मनुष्यों को चाहिये कि विद्वानों के उपदेशों को ग्रहण करके सदा सुख प्राप्त करें ॥४॥
टिप्पणी: ४−(तत्) वक्ष्यमाणम् (नः) अस्मान् (वि) विशेषेण (वोचः) लोडर्थे लुङ्। ब्रूहि (यदि) (ते) तव (पुरा) पूर्वम् (चित्) अपि (जरितारः) गुणस्तोतारः (आनशुः) अशू व्याप्तौ-लिट्। प्रापुः (सुम्नम्) सुखम् (इन्द्र) हे परमैश्वर्यवन् पुरुष (कः) (ते) तव (भागः) अंशः (किम्) (वयः) जीवनम् (दुध्र) अ०२०।३४।१८। हे पूर्ण (खिद्वः) खिद दैन्ये, अन्तर्गतण्यर्थः-क्वसु। वस्वेकाजाद्घसाम्। पा०७।२।६७। इडभावः। द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्। वा० पा०६।१।८। इत्यनभ्यासः। मतुवसो रु सम्बुद्धौ छन्दसि। पा०८।३।१। इति रुत्वम्। आमन्त्रितनिघातः। हे शत्रूणां खेदयितः (पुरुहूत) हे बहुभिराहूत (पुरुवसो) हे बहुधन (असुरघ्नः) कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्। वा० पा०३।२।। असुर+हन हिंसागत्योः-कप्रत्ययः। दुष्टानां हन्ता नाशकः ॥