वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: नोधाः छन्द: त्रिष्टुप् स्वर: सूक्त-३५

अ॒स्मा इदु॒ त्यदनु॑ दाय्येषा॒मेको॒ यद्व॒व्ने भूरे॒रीशा॑नः। प्रैत॑शं॒ सूर्ये॑ पस्पृधा॒नं सौव॑श्व्ये॒ सुष्वि॑माव॒दिन्द्रः॑ ॥

मन्त्र उच्चारण
पद पाठ

अस्मै । इत् । ऊं इति । त्यत् । अनु । दायि । एषाम् । एक: । यत् । वव्ने । भूरे: । ईशान: ॥ प्र । एतशम् । सूर्ये । पस्पृधानम् । सौवश्व्यै । सुस्विम् । आवत् । इन्द्र: ॥३५.१५॥

अथर्ववेद » काण्ड:20» सूक्त:35» पर्यायः:0» मन्त्र:15


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सभापति के लक्षणों का उपदेश।

पदार्थान्वयभाषाः - (अस्मै) उस [मनुष्य] को (इत्) ही (उ) निश्चय करके (त्यत्) वह [वस्तु] (अनु) निरन्तर (दायि) दी गयी है, (यत्) जो [वस्तु] (एषाम्) इन [मनुष्यों] के बीच (एकः) अकेले (भूरेः) बहुत [राज्य] के (ईशानः) स्वामी ने (वव्ने) माँगी है। (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाले परमेश्वर] ने (सौवश्व्ये) फुरतीले घोड़ोंवाले संग्राम के बीच (सूर्ये) सूर्य के प्रकाश में [जैसे स्पष्ट रीति से] (पस्पृधानम्) झगड़ते हुए (सुष्विम्) ऐश्वर्यवान् (एतशम्) ब्राह्मण [ब्रह्मज्ञानी सभापति] को (प्र) अच्छे प्रकार (आवत्) बचाया है ॥१॥
भावार्थभाषाः - जो आत्मविश्वासी मनुष्य शुद्ध अन्तःकरण से दुष्टों को जीतने में प्रयत्न करता है, परमात्मा अवश्य उसकी रक्षा करता है ॥१॥
टिप्पणी: १−(अस्मै) तस्मै मनुष्याय (इत्) एव (उ) निश्चयेन (त्यत्) तद् वस्तु (अनु) निरन्तरम् (दायि) अदायि। दत्तमस्ति (एषाम्) मनुष्याणां मध्ये (एकः) असहायः। केवलः (यत्) वस्तु (वव्ने) वनु याचने-लिट्, उपधालोपः। ववने। ययाचे (भूरेः) प्रभूतस्य राज्यस्य (ईशानः) अधिपतिः (प्र) प्रकर्षेण (एतशम्) इणस्तशन्तशसुनौ। उ०३।१४९। इण् गतौ-तशन्। एतशः, अश्वनामे-निघ०१।१९। गमनशीलम्। ब्राह्मणम्। ब्रह्मज्ञानिनं सभापतिम् (सूर्ये) सूर्यप्रकाशे यथा। अतिस्पष्टरीत्या (पस्पृधानम्) स्पर्ध संघर्षे कानच्। शर्पूर्वाः खयः। पा०७।४।६१। इत्यभ्यासस्य पकारः शिष्यते, धात्वकारस्य लोपो रेफस्य सम्प्रसारणं च पृषोदरादित्वात्। स्पर्धमानम्। मत्सरं कुर्वन्तम् (सौवश्व्यै) गुणवचनब्राह्मणादिभ्यः कर्मणि च। पा०।४।१२४। स्वश्व-ष्यञ्। न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्। पा०७।३।३। वकारात् पूर्वम् औकारागमः। शोभना वेगवन्तोऽश्वास्तुरङ्गाः स्वश्वाः, तेषां कर्मणि। वेगवदश्वयुक्ते सङ्ग्रामे (सुष्विम्) किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्। वा०। पा०३।२।१७१। षु प्रसवैश्वर्ययोःकिन्, यणादेशः उवङादेशाभावश्छान्दसः। ऐश्वर्यवन्तम् (आवत्) अरक्षत् (इन्द्रः) परमैश्वर्यवान् परमात्मा ॥