वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: नोधाः छन्द: त्रिष्टुप् स्वर: सूक्त-३५

अ॒स्येदु॑ त्वे॒षसा॑ रन्त॒ सिन्ध॑वः॒ परि॒ यद्वज्रे॑ण सी॒मय॑च्छत्। ई॑शान॒कृद्दा॒शुषे॑ दश॒स्यन्तु॒र्वीत॑ये गा॒धं तु॒र्वणिः॒ कः ॥

मन्त्र उच्चारण
पद पाठ

अस्य । इत् । ऊं इति । त्वेषसा । रन्त । सिन्धव: । परि । यत् । वज्रेण । सीम् । अयच्छत् ॥ ईशानऽकृत् । दाशुषे । दशस्यन् । तुर्वीतये । गाधम् । तुर्वणि: । करिति । क: ॥३५.११॥

अथर्ववेद » काण्ड:20» सूक्त:35» पर्यायः:0» मन्त्र:11


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सभापति के लक्षणों का उपदेश।

पदार्थान्वयभाषाः - (अस्य) इस [सभापति] के (इत्) ही (उ) निश्चय करके (त्वेषसा) तेज [पराक्रम] से (सिन्धवः) नदियाँ [नाले बरहा आदि] (रन्त) रमे हैं [बहे हैं], (यत्) क्योंकि उसने (वज्रेण) वज्र [बिजुली फडुआ आदि शस्त्रों] से (सीम्) बन्ध [बाँध आदि] को (परि) सब ओर से (यच्छत्) बाँधा है। (दाशुषे) दानी मनुष्य को (ईशानकृत्) ऐश्वर्यवान् करनेवाले, (दशस्यन्) कवच [रक्षासाधन] के समान काम करते हुए, (तुर्वणिः) शीघ्रता सेवन करनेवाले [सभाध्यक्ष] ने (तुर्वीतये) शीघ्रता करनेवालों के चलने के लिये (गाधम्) उथले स्थान [घाट आदि] को (कः) बनाया है ॥११॥
भावार्थभाषाः - प्रधान राजा को चाहिये कि पहाड़ों से बड़े-बड़े नाले काटकर पृथिवी पर जल लाकर खेती आदि करावे, और यात्रियों के लिये सेतु [पुल] घाट आदि बनावे ॥११॥
टिप्पणी: ११−(अस्य) सभाध्यक्षस्य (इत् उ) अवधारणे (त्वेषसा) तेजसा। पराक्रमेण (रन्त) रमु क्रीडायाम्-लङि शपो लुक्। अरमन्त (सिन्धवः) नद्यः (परि) सर्वतः (यत्) यतः (वज्रेण) विद्युदादिभूखननशरत्रेण (सीम्) अ०२०।२०।६। षिञ् बन्धने-ईप्रत्ययः। बन्धम् (अयच्छत्) यमु उपरमे-लङ्। नियमितवान्। अवरुद्धवान् (ईशानकृत्) ऐश्वर्ययुक्तस्य कर्ता (दाशुषे) दानिने मनुष्याय (दशस्यन्) दंश दंशने-असुन्, स च कित्। उपमानादाचारे। पा०३।१।१०। दशसू-क्यच्, शतृ। दश कवच इवाचरन् (तुर्वीतये)। तुर वेगे-क्विप्+वी गतौ-क्तिन्। तुरां शीघ्रकारिणां गतये गमनाय (गाधम्) गाधृ प्रतिष्ठायाम्-घञ्। तलस्पर्शस्थानम्। अवतरणस्थानम् (तुर्वणिः) तुर्+वन संभक्तौ-इन्। शीघ्रत्वस्य वेत्रस्य संभक्ता (कः) करोतेर्लुङ् छान्दसं रूपम् अकार्षीत् ॥