आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता। इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑ ॥
पद पाठ
आ । नूनम् । यातम् । अश्विना । इमा । हव्यानि । वाम् । हिता ॥ इमे । सोमास: । अधि । तुर्वशे । यदौ । इमे । कण्वेषु । वाम् । अथ ॥१४१.४॥
अथर्ववेद » काण्ड:20» सूक्त:141» पर्यायः:0» मन्त्र:4
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
दिन और राति के उत्तम प्रयोग का उपदेश।
पदार्थान्वयभाषाः - (अश्विना) हे दोनों अश्वी ! [व्यापक दिन-रात] (नूनम्) अवश्य (आ यातम्) आओ, (इमा) यह (हव्यानि) ग्राह्य द्रव्य (वाम्) तुम दोनों के लिये (हिता) रक्खे हैं। (इमे) यह (सोमासः) सोम रस [तत्त्व रस] (तुर्वशे) हिंसकों को वश में करनेवाले, (यदौ) यत्नशील मनुष्य में (अथ) और (इमे) यह [तत्त्व रस] (कण्वेषु) बुद्धिमानों में (वाम्) तुम दोनों के (अधि) अधिकाई से हैं ॥४॥
भावार्थभाषाः - समय के सुप्रयोग से विद्वान् प्रयत्न करनेवालों को उत्तम-उत्तम पदार्थ मिलते हैं और सदा मिलते रहेंगे ॥४॥
टिप्पणी: ४−(आ यातम्) आगच्छतम् (नूनम्) अवश्यम् (अश्विना) म० २। हे व्यापकौ अहोरात्रौ (इमा) पुरोवर्तीनि (हव्यानि) ग्राह्यवस्तूनि (वाम्) युवाभ्याम् (हिता) धृतानि (इमे) दृश्यमानाः (सोमासः) तत्त्वरसाः (अधि) आधिक्येन (तुर्वशे) अ० २०।३७।८। नरां हिंसकानां वशयितरि (यदौ) यती प्रयत्ने-उप्रत्ययः, तकारस्य दः। प्रयत्नशीले (इमे) (कण्वेषु) मेधाविषु (वाम्) युवयोः (अथ) अपि च ॥