अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभिः॑ स॒हस्रैः॑। आव॒त्तमिन्द्रः॒ शच्या॒ धम॑न्त॒मप॒ स्नेहि॑तीर्नृ॒मणा॑ अधत्त ॥
पद पाठ
अव । द्रप्स: । अंशुऽमतीम् । अतिष्ठत् । इयान: । कृष्ण: । दशऽभि: । सहस्रै: ॥ आवत् । तम् । इन्द्र: । शच्या । धमन्तम् । अप । स्नेहिती: । नृऽमना: । अधत्त ॥१३७.७॥
अथर्ववेद » काण्ड:20» सूक्त:137» पर्यायः:0» मन्त्र:7
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा और प्रजा के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (द्रप्सः) घमण्डी, (कृष्णः) कौवा [के समान निन्दित लुटेरा शत्रु] (दशभिः सहस्रैः) दस सहस्र [बड़ी सेना] के साथ (इयानः) चलता हुआ (अंशुमतीम्) विभागवाली [सीमावाली नदी-म० ८] पर (अव अतिष्ठत्) ठहरा है। (नृमणाः) नरों के समान मनवाले (इन्द्रः) इन्द्र [बड़े प्रतापी शूर] ने (तम् धमन्तम्) उस हाँफते हुए को (शच्या) बुद्धि से (आवत्) बचाया है और (स्नेहितीः) अपनी मारू सेनाओं को (अप अधत्त) हटा लिया है ॥७॥
भावार्थभाषाः - जो शत्रु चढ़ाई करे और थककर हार मान लेवे, वीर राजा जीवित छोड़कर उसे मित्र बनावे और यथोचित प्रबन्ध करके अपनी सेना हटा लेवे ॥७॥
टिप्पणी: मन्त्र ७-११ ऋग्वेद में हैं-८।९६ [सायणभाष्य ८]। १३-१७ मन्त्र ७ सामवेद-पू० ४।४।१ ॥ ७−(द्रप्सः) वृतॄवदिवचि०। उ० ३।६२। दृप हर्षमोहनयोः, उत्क्लेशे, गर्वे च-सप्रत्ययः। गर्ववान् (अंशुमतीम्) मृगय्वादयश्च। उ० १।३७। अंश विभाजने-कु। विभागवतीं सीमायुक्तां नदीम् (अव अतिष्ठत्) अवस्थितवान् (इयानः) इण् गतौ-कानच्। गच्छन् (कृष्णः) अ० ७।६४।१। श्वा काक इति कुत्सायाम्-निरु० ३।१८। काक इव निन्दितो दस्युः शत्रुः (दशभिः सहस्रैः) बहुभिः सेनाभिः (आवत्) रक्षितवान् (तम्) शत्रुम् (इन्द्रः) महाप्रतापी शूरः (शच्या) प्रज्ञया-निघ० ३।९। (धमन्तम्) उच्छ्वसन्तम्। पराभवेन दीर्घं श्वसन्तम् (स्नेहितीः) स्नेहतिः स्नेहतिर्वधकर्मा-निघ० २।१९। स्वकीया मारणशीलाः सेनाः (नृमणाः) नेतृतुल्यमनस्कः (अप अधत्त) दूरे धारितवान् निवर्तितवान् ॥