वांछित मन्त्र चुनें

यद्ध॒ प्राची॒रज॑ग॒न्तोरो॑ मण्डूरधाणिकीः। ह॒ता इन्द्र॑स्य॒ शत्र॑वः॒ सर्वे॑ बुद्बु॒दया॑शवः ॥

मन्त्र उच्चारण
पद पाठ

यत् । ह । प्राची: । अजगन्त । उर: । मण्डूरऽधाणिकी: ॥ ह्वता: । इन्द्रस्य । शत्रव: । सर्वे । बुद्बुदऽयाशव: ॥१३७.१॥

अथर्ववेद » काण्ड:20» सूक्त:137» पर्यायः:0» मन्त्र:1


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (मण्डूरधाणिकीः) हे विभग धारण करनेवाली (उरः) मारू सेनाओ ! (प्राचीः) आगे बढ़ती हुई (यत् ह) जभी (अजगन्त) तुम चली हो। [तभी] (इन्द्रस्य) इन्द्र [बड़े ऐश्वर्यवाले राजा] के (सर्वे) सब (शत्रवः) वैरी लोग (बुद्बुदयाशवः) बुद्बुदों के समान चलनेवाले और फैलनेवाले होकर (हताः) मारे गये ॥१॥
भावार्थभाषाः - राजा व्यूहरचना से टुकरी-टुकरी करके सुशिक्षित सेना के द्वारा शत्रुओं को बुद्बुदों के समान निर्बल करके मारे ॥१॥
टिप्पणी: यह मन्त्र ऋग्वेद में है-१०।१।४ ॥ १−(यत्) यदा (ह) एव (प्राचीः) प्रकर्षेण अञ्चन्त्यः। प्रकृष्टगमनाः सत्यः (अजगन्त) गमेर्लङि मध्यमबहुवचने छान्दसः शपः श्लुः। तप्तनप्तनथनाश्च। पा० ७।१।४। तस्य तबादेशः। अगच्छत यूयम् (उरः) उर्वी हिंसायाम्-क्विप्। राल्लोपः। पा० ६।४।२१। वलोपः, ततो जसि रूपम्। हे हिंसित्र्यो मारणशीलाः सेनाः (मण्डूरधाणिकीः) मीनातेरूरन्। उ० १।६७। मडि विभाजने भूषायां हर्षे च−ऊरन्। आणको लूधूशिङ्धिधाञ्भ्यः। उ० ३।८३। दधातेः-आणकप्रत्ययः, ङीप्, इत्वं च। हे विभागस्य धारयित्र्यः व्यूहेन (हताः) नष्टाः (इन्द्रस्यः) ऐश्वर्यवतो राज्ञः (शत्रवः) (सर्वे) (बुद्बुदयाशवः) बुद आलोचने प्रणिधाने−क्विप्+बुद आलोचनो+क। यन्ति गच्छन्तीति याः, या-क्विप्। अश्नुवत इत्याशवः, अशू व्याप्तौ-उण्। बुद्बुदवत् जलस्य गोलाकारविकारवत् यातारो व्यापनशीलाश्च सन्तः ॥