वांछित मन्त्र चुनें

म॑हान॒ग्न्यतृप्नद्वि॒ मोक्र॑द॒दस्था॑नासरन्। शक्ति॑का॒नना॑ स्वच॒मश॑कं सक्तु॒ पद्य॑म् ॥

मन्त्र उच्चारण
पद पाठ

महान् । अग्नी इत‍ि । अतृप्नत् । वि । मोक्रदत् । अस्थाना । आसरन् ॥ शक्तिकानना: । स्वचमशकम् । सक्तु । पद्यम् ॥१३६.५॥

अथर्ववेद » काण्ड:20» सूक्त:136» पर्यायः:0» मन्त्र:5


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (महान्) महान् पुरुष (अग्नी) दोनों अग्नियों [शारीरिक और आत्मिक बलों] को (वि) विशेष करके (अतृप्नत्) तृप्त करे, और (अस्थाना) अयोग्य स्थान में (आसरन्) आता हुआ (मोक्रदत्) न घबरावे। (शक्तिकाननाः) सामर्थ्य का प्रकाश करनेवाले हम (स्वचमशकम्) ज्ञातियों के लिये भोजन [लड्डू आदि] और (सक्तु) सत्तू (पद्यम्) प्राप्त करें ॥॥
भावार्थभाषाः - समर्थ मनुष्य अन्न आदि पदार्थों का संग्रह करके कठिन समय में अपने भाई-बन्धुओं को पुष्ट करके रक्षा करे ॥॥
टिप्पणी: −(महान्) समर्थः पुरुषः (अग्नी) प्रगृह्यत्वाभावः। अग्निरूपौ आत्मिकसामाजिकप्रतापौ (अतृप्नत्) तर्पयेत् (वि) विशेषेण (मोक्रदत्) क्रद, क्रदि वैकल्ये। नैव व्याकुलो भवेत् (अस्थाना) सुपां सुलुक्। पा० ७।१।३९। विभक्तेराकारः। अयोग्यस्थानम् (आसरन्) सृ गतौ−शतृ। आगच्छन् (शक्तिकाननाः) कन दीप्तौ−णिच्, ल्युट्। शक्तिं कानयन्ति दीपयन्तीति शक्तिकाननाः। सामर्थ्यप्रकाशकाः (स्वचमशकम्) अत्यविचमितमि०। उ० ३।११७। चमु अदने−असच्। सस्य शः, स्वार्थे कन्। स्वेभ्यो ज्ञातिभ्यः पिष्टकमेदं लड्डुकादिकम् (सक्तु) भ्रष्टयवादिचूर्णम् (पद्यम्) वयं प्राप्नुयाम ॥