वांछित मन्त्र चुनें

देवा॑ दद॒त्वासु॑रं॒ तद्वो॑ अस्तु॒ सुचे॑तनम्। युष्माँ॑ अस्तु॒ दिवे॑दिवे प्र॒त्येव॑ गृभायत ॥

मन्त्र उच्चारण
पद पाठ

देवा: । ददतु । आसुरम् । तत् । व: । अस्तु । सुचेतनम् ॥ युष्मान् । अस्तु । दिवेदिवे । प्रति । एव । गृभायत ॥१३५.१०॥

अथर्ववेद » काण्ड:20» सूक्त:135» पर्यायः:0» मन्त्र:10


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - [हे मनुष्यो !] (देवाः) विद्वान् लोग (आसुरम्) बुद्धिमत्ता (ददतु) देवें, (तत्) वह (वः) तुम्हारे लिये (सुचेतनम्) सुन्दर ज्ञान (अस्तु) होवे। (युष्मान्) तुमको वह (दिवेदिवे) दिन-दिन (अस्तु) होवे, [उस को] (प्रति) प्रत्यक्ष रूप से (एव) ही (गृभायत) तुम ग्रहण करो ॥१०॥
भावार्थभाषाः - सब मनुष्य विद्वानों से शिक्षा लेकर सदा आनन्द पावें ॥१०॥
टिप्पणी: १०−(देवाः) विद्वांसः (ददतु) प्रयच्छन्तु (आसुरम्) असुर-अण् भावे। असुरत्वं प्रज्ञावत्त्वं ज्ञानवत्त्वं वापि वासुरिति प्रज्ञानामास्यत्यनर्थानस्ताश्चास्यामर्थाः-निरु० १०।३४। बुद्धिमत्त्वम् (तत्) आसुरम् (वः) युष्मभ्यम् (अस्तु) (सुचेतनम्) प्रशस्तं ज्ञानम् (युष्मान्) युष्मभ्यम् (अस्तु) (दिवेदिवे) दिने-दिने (प्रति) प्रत्यक्षेण (एव) निश्चयेन (गृभायत) अ० ८।४।१८। गृह्णीत ॥