वांछित मन्त्र चुनें

ये त्वा॑ श्वे॒ता अजै॑श्रव॒सो हार्यो॑ यु॒ञ्जन्ति॒ दक्षि॑णम्। पूर्वा॒ नम॑स्य दे॒वानां॒ बिभ्र॑दिन्द्र महीयते ॥

मन्त्र उच्चारण
पद पाठ

ये । त्वा । श्वेता: । अजैश्रवस: । हार्य: । युञ्जन्ति । दक्षिणम् ॥ पूर्वा । नमस्य । देवानाम् । बिभ्रत् । इन्द्र । महीयते ॥१२८.१६॥

अथर्ववेद » काण्ड:20» सूक्त:128» पर्यायः:0» मन्त्र:16


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (नमस्य) हे नमस्कारयोग्य (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (ये) जो (श्वेताः) चाँदी [आदि धन]वाले, (अजैश्रवसः) अजेय कीर्तिवाले (हार्यः) मनुष्य (दक्षिणम्) चतुर (त्वा) तुझसे (युञ्जन्ति) मिलते हैं, (देवानाम्) विद्वानों की (बिभ्रत्) पोषण करनेवाले (पूर्वा) [उनकी] पुरानी नीति (महीयते) पूजी जाती है ॥१६॥
भावार्थभाषाः - चतुर राजा धनी विद्वान् मनुष्यों की सुनीति का सदा आदर करे ॥१६॥
टिप्पणी: १६−(ये) (त्वा) (श्वेताः) श्वेतं रूप्येऽपि रजतम्-अमरे २३।७९। श्वेत-अर्शआद्यच्। श्वेतेन रजतादिधनेन युक्ताः (अजैश्रवसः) अजेय-श्रवसः। अजेयकीर्तयः (हार्यः) वसिवपियजि०। उ० ४।१२। हृञ् हरणे-इञ्। हरयो मनुष्यनाम-निघ० २।३। हरयः। मनुष्याः (युञ्जन्ति) संयोजयन्ति (दक्षिणम्) दक्ष वृद्धौ-इनन्। दक्षम्। कार्यकुशलम् (पूर्वा) प्राचीना नीतिः (नमस्य) हे सत्करणीय (देवानाम्) विदुषाम् (बिभ्रत्) बिभ्रती। पोषणं कुर्वन्ती (इन्द्र) परमैश्वर्यवन् मनुष्य (महीयते) पूज्यते ॥