यः पर्व॑ता॒न्व्य॑दधा॒द्यो अ॒पो व्य॑गाहथाः। इन्द्रो॒ यो वृ॑त्र॒हान्म॒हं तस्मा॑दिन्द्र॒ नमो॑ऽस्तु ते ॥
पद पाठ
य: । पर्वतान् । अदधात् । य: । अप: । वि । अगाहथा: ॥ इन्द्र: । य: । वृत्रहा । आत् । महम् । तस्मात् । इन्द्र । नम: । अस्तु । ते ॥१२८.१४॥
अथर्ववेद » काण्ड:20» सूक्त:128» पर्यायः:0» मन्त्र:14
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
मनुष्य के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (यः) जिस (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाले पुरुष] तूने (पर्वतान्) पहाड़ों को (वि) विविध प्रकार (अदधात्) धारण किया है, (यः) जिस तूने (अपः) जलों को (वि) विविध प्रकार (अगाहथाः) बिलोया है, (आत्) और (यः) जो (वृत्रहा) शत्रुनाशक है, (तस्मात्) इसीसे, (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (ते) उस तुझको (महम्) बहुत (नमः) नमस्कार (अस्तु) होवे ॥१४॥
भावार्थभाषाः - जो मनुष्य पहाड़ों में मार्ग करके नदी, नाले, निकालकर प्रजा का उपकार करे, सब लोग उसका आदर करें ॥१४॥
टिप्पणी: १४−(यः) पुरुषः (पर्वतान्) शैलान् (वि) विविधम् (अदधात्) अदधाः। धारितवानसि (यः) (अपः) जलानि (वि) (अगाहथाः) विलोडितवानसि (इन्द्रः) परमैश्वर्यवान् पुरुषः (यः) (वृत्रहा) शत्रुनाशकः असि (आत्) अनन्तरम् (महम्) महत् (तस्मात्) कारणात् (इन्द्र) (नमः) सत्कारः (अस्तु) (ते) तादृशाय तुभ्यम् ॥