त्वं वृ॑षा॒क्षुं म॑घव॒न्नम्रं॑ म॒र्याकरो॒ रविः॑। त्वं रौ॑हि॒णं व्यास्यो॒ वि वृ॒त्रस्याभि॑न॒च्छिरः॑ ॥
पद पाठ
त्वम् । वृषा । अक्षुम् । मघवन् । नम्रम् । मर्य । आकर: । रवि: ॥ त्वम् । रौहिणम् । व्यास्य: । वि । वृत्रस्य । अभिनत् । शिर: ॥१२८.१३॥
अथर्ववेद » काण्ड:20» सूक्त:128» पर्यायः:0» मन्त्र:13
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
मनुष्य के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (मघवन्) हे धनवान् (मर्य) मनुष्य ! (त्वम) तूने (वृषा) बलवान् और (रविः) सूर्य [के समान प्रतापी] होकर (अक्षुम्) व्यापनशील [चतुर] (नम्रम्) नम्र [विनीत] पुरुष को (आकरः) आवाहन किया है। (त्वम्) तूने (रौहिणम्) मेघ [के समान अन्धकार फैलानेवाले पुरुष] को (व्यास्यः) फैंक गिराया है और (वृत्रस्य) शत्रु के (शिरः) शिर को (वि अभिनत्) तोड़ दिया है ॥१३॥
भावार्थभाषाः - सभापति राजा सूर्य के समान प्रतापी होकर चतुर सुशिक्षित लोगों का आदर और दुष्ट शत्रुओं का नाश करे ॥१३॥
टिप्पणी: १३−(त्वम्) (वृषा) बलवान् (अक्षुम्) अ० ९।३।८। अक्षू व्याप्तौ-उप्रत्ययः। व्यापनशीलं प्रवीणम् (मघवन्) धनवन् (नम्रम्) विनीतं पुरुषम् (मर्य) हे मनुष्य (आकरः) आ-अकरः। आङ्+डुकृञ् आह्वाने-लुङ्। आहूतवानसि (रविः) सूर्यवत्प्रतापी सन् (त्वम्) (रौहिणम्) अथ० २०।३४।१३। मेघमिवान्धकारकरं दुष्टम् (व्यास्यः) असु क्षेपे-लुङ्। प्रक्षिप्तवानसि (वि) पृथग्भावे (वृत्रस्य) शत्रुः (अभिनत्) अभिदः। भिन्नवानसि (शिरः) ॥