वांछित मन्त्र चुनें

यः स॒भेयो॑ विद॒थ्य: सु॒त्वा य॒ज्वाथ॒ पूरु॑षः। सूर्यं॒ चामू॑ रि॒शादस॒स्तद्दे॒वाः प्राग॑कल्पयन् ॥

मन्त्र उच्चारण
पद पाठ

य: । सभेय: । विद‍थ्य: । सुत्वा । यज्वा । अथ । पूरुष: ॥ सूर्यम् । च । अमू । रिशादस: । तत् । देवा: । प्राक् । अकल्पयन् ॥१२८.१॥

अथर्ववेद » काण्ड:20» सूक्त:128» पर्यायः:0» मन्त्र:1


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (यः) जो (सभेयः) सभ्य [सभाओं में चतुर], (विदथ्यः) विद्वानों में प्रशंसनीय, (सुत्वा) तत्त्वरस निकालनेवाला (अथ) और (यज्वा) मिलनसार (पुरुषः) पुरुष है। (अमू) उस (सूर्यम्) सूर्य [के समान प्रतापी] को (च) निश्चय करके (तत्) तब (रिशादसः) हिंसकों के नाश करनेवाले (देवाः) विद्वानों ने (प्राक्) पहिले [ऊँचे स्थान पर] (अकल्पयन्) माना है ॥१॥
भावार्थभाषाः - विद्वान् लोग सबमें चतुर मनुष्य को सभापति बनाकर प्रजा की रक्षा करें ॥१॥
टिप्पणी: [सूचना−पदपाठ के लिये सूचना सूक्त १२७ देखो ॥]१−(यः) (सभेयः) ढश्छन्दसि। पा० ४।४।१०६। सभा-ढप्रत्ययः। सभासु साधुः। सभ्यः (विदथ्यः) तत्र साधुः पा० ४।४।९८। विदथ-यत्। विद्वत्सु साधुः (सुत्वा) सुयजोर्ङ्वनिप्। पा० ३।२।१०३। षुञ् अभिषवे-ङ्वनिप्। सोमस्य तत्त्वरसस्य सोता (यज्वा) यज-ङ्वनिप् पूर्वसूत्रेण। यष्टा। संगन्ता (अथ) समुच्चये (पूरुषः) पुरुषः (सूर्यम्) सूर्यवत् प्रतापिनम् (च) अवधारणे (अमू) सुपां सुपो भवन्ति। वा० पा० ७।१।३९। एकवचनस्य द्विवचनम्। अनुम् (रिशादसः) अ० २।२८।२। रिश हिंसायाम्+क+अद भक्षणे-असुन्। हिंसकानां भक्षका नाशकाः (तत्) तदा (देवाः) विद्वांसः (प्राक्) पूर्वम्। अग्रम् (अकल्पयन्) कल्पितवन्तः ॥