किम॒यं त्वां॑ वृ॒षाक॑पिश्च॒कार॒ हरि॑तो मृ॒गः। यस्मा॑ इर॒स्यसीदु॒ न्वर्यो वा॑ पुष्टि॒मद्वसु॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
पद पाठ
किम् । अयम् । त्वाम् । वृषाकपि: । चकार । हरित: । मृग: ॥ यस्मै । इरस्यसि । इत् । ऊं इति । नु । अर्य: । वा । पुष्टिमत् । वसु । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.३॥
अथर्ववेद » काण्ड:20» सूक्त:126» पर्यायः:0» मन्त्र:3
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
गृहस्थ के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - [हे मनुष्य !] (किम्) कौनसा [अपकार] (अयम्) इस (हरितः) छीन लेनेवाले, (मृगः) घूमनेवाले मृग [जंगली पशु के समान] (वृषाकपिः) वृषाकपि [बलवान् चेष्टा करानेवाले जीवात्मा] ने (त्वाम्) तुझको (चकार) किया है ? (यस्मै) जिस [जीवात्मा] के लिये (अर्यः) स्वामी होकर तू (पुष्टिमत्) पुष्टि रखनेवाले (वसु) धन का (इत्) भी (वा) अवश्य (उ) निश्चय करके (नु) अब (इरस्यसि) डाह करता है, (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला मनुष्य] (विश्वस्मात्) सब [प्राणी मात्र] से (उत्तरः) उत्तम है ॥३॥
भावार्थभाषाः - मनुष्य को चाहिये कि पशु के समान आचरण अर्थात् पापबुद्धि और डाह छोड़कर पुरुषार्थ से वृद्धि करे ॥३॥
टिप्पणी: ३−(किम्) किमपकारम् (अयम्) विचार्यमाणः (त्वाम्) मनुष्यम् (वृषाकपिः) म० १। बलवच्चेष्टाकारको जीवात्मा (चकार) कृतवान् (हरितः) हरणशीलः (मृगः) मृगो मार्ष्टेर्गतिकर्मणः-निरु० १३।३। भ्रमणशीलो वनपशुर्यथा (यस्मै) वृषाकपये जीवात्मने (इरस्यसि) इरस ईष्यायां कण्ड्वादिः। ईर्ष्यसि (इत्) अपि (उ) एव (नु) इदानीम् (अर्यः) स्वामी (वा) अवधारणे (पुष्टिमत्) पोषयुक्तम् (वसु) धनम्। सिद्धमन्यत् ॥