उ॒क्ष्णो हि मे॒ पञ्च॑दश सा॒कं पच॑न्ति विंश॒तिम्। उ॒ताहम॑द्मि॒ पीव॒ इदु॒भा कु॒क्षी पृ॑णन्ति मे॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
पद पाठ
उक्ष्ण: । हि । पञ्चऽदश । साकम् । पचन्ति । विंशतिम् ॥ उत । अहम् । अद्मि । पीव: । उभा । कुक्षी इति । पृणन्ति । मे । विश्वस्मात् । इन्द्र: । उत्ऽतर ॥१२६.१४॥
अथर्ववेद » काण्ड:20» सूक्त:126» पर्यायः:0» मन्त्र:14
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
गृहस्थ के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (पञ्चदश, विंशतिम्) पन्द्रह, बीस [अर्थात् बहुत से] (उक्ष्णः) बढ़ती करनेवाले पदार्थों को (मे) मेरे लिये (हि) ही (साकम्) एक साथ (पचन्ति) वे [ईश्वरनियम] परिपक्व करते हैं, (उत) और (अहम्) मैं, (पीवः) उनके पुष्टिकारक रस को (इत्) ही (अद्मि) खाता हूँ, और (मे) मेरी (उभा) दोनों (कुक्षी) कोखों को (पृणन्ति) वे [पदार्थ] भरते हैं, (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला मनुष्य] (विश्वस्मात्) सब [प्राणी मात्र] से (उत्तरः) उत्तम है ॥१४॥
भावार्थभाषाः - परमात्मा ने संसार में अनेक उपकारी पदार्थ उत्पन्न किये हैं, मनुष्य उनका सार लेकर शरीर और आत्मा की पुष्टि करे ॥१४॥
टिप्पणी: १४−(उक्ष्णः) म० १३। वृद्धिकरान् पदार्थान् (हि) एव (मे) मह्यम् (पञ्चदश, विंशतिम्) बहुसंख्याकान् (साकम्) सह (पचन्ति) परिपक्वान् कर्वन्ति ते परमेश्वरनियमाः (उत) अपि च (अहम्) मनुष्यः (अद्मि) भक्षयामि (पीवः) पीव स्थौल्ये-असुन्। पुष्टिकरं रसम् (इत्) एव (उभा) उभौ। द्वौ (कुक्षी) उदरस्य वामदक्षिणपार्श्वौ (पृणन्ति) पूरयन्ति ते पदार्थाः (मे) मम। अन्यद् गतम् ॥