तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतुः॑। उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मनः॑ ॥
पद पाठ
तत् । हि । स्वऽराजम् । वृषभम् । तम् । ओजसे । धिषणे । इति । नि:ऽततक्षतु: ॥ उत । उपऽमानाम् । प्रथम: । नि । सीदसि । सोमऽकामम् । हि । ते । मन: ॥११३.२॥
अथर्ववेद » काण्ड:20» सूक्त:113» पर्यायः:0» मन्त्र:2
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा के धर्म का उपदेश।
पदार्थान्वयभाषाः - (तम् हि) उस ही [तुझ] (स्वराजम्) स्वराजा को (तम्) उस ही [तुझ] (वृषभम्) बलवान् को (ओजसे) पराक्रम के लिये (धिषणे) दोनों सूर्य और भूमि ने (निष्टतक्षतुः) बना दिया है। (उत) और (उपमानाम्) समीपवालों का भी (प्रथमः) पहिला [मुख्य] होकर (नि षीदसि) तू बैठता है, (हि) क्योंकि (ते) तेरा (मनः) मन (सोमकामम्) ऐश्वर्य का चाहनेवाला है ॥२॥
भावार्थभाषाः - राजा सूर्य के समान तेजस्वी और पृथिवी के समान सहनशील होकर अपने पराक्रम से ऐश्वर्य बढ़ावे ॥२॥
टिप्पणी: २−(तम्) तादृशं त्वाम् (हि) एव (स्वराजम्) स्वयमेव राजानम् (वृषभम्) बलवन्तम् (तम्) (ओजसे) पराक्रमाय (धिषणे) अथ० २०।९४।८। सूर्यभूमिलोकौ (निष्टतक्षतुः) संचस्करतुः (उत) अपि च (उपमानाम्) समीपस्थानाम् (प्रथमः) मुख्यः (नि षीदसि) उपविशसि (सोमकामम्) ऐश्वर्यं कामयमानम् (हि) यस्मात् कारणात् (ते) तव (मनः) अन्तःकरणम् ॥