वांछित मन्त्र चुनें

अन्नं॒ पूर्वा॑ रासतां मे अषा॒ढा ऊर्जं॑ दे॒व्युत्त॑रा॒ आ व॑हन्तु। अ॑भि॒जिन्मे॑ रासतां॒ पुण्य॑मे॒व श्रव॑णः॒ श्रवि॑ष्ठाः कुर्वतां सुपु॒ष्टिम् ॥

मन्त्र उच्चारण
पद पाठ

अन्नम्। पूर्वा। रासताम्। मे। अषाढाः। ऊर्जम्। देवी। उत्ऽतरोः। आ। वहन्तु। अभिऽजित्। मे। रासताम्। पुण्यम्। एव। श्रवणः। श्रविष्ठाः। कुर्वताम्। सुऽपुष्टिम् ॥७.४॥

अथर्ववेद » काण्ड:19» सूक्त:7» पर्यायः:0» मन्त्र:4


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ज्योतिष विद्या का उपदेश।

पदार्थान्वयभाषाः - (पूर्वा) पूर्वा [पहिली] (अषाढाः) अषाढ़ाएँ (मे) मेरे लिये (अन्नम्) अन्न (रासताम्) देवें, और (देवी) चमकीली (उत्तराः) उत्तराएँ [पिछली अर्थात् उत्तरा-अषाढाएँ] (ऊर्जम्) पराक्रम (आ वहन्तु) लावें। (अभिजित्) (मे) मेरे लिये (पुण्यम्) पुण्य कर्म (एव) ही (रासताम्) देवे, (श्रवणः) श्रवण और (श्रविष्ठाः) श्रविष्ठाएँ (सुपुष्टिम्) बहुत पुष्टि (कुर्वताम्) करें ॥४॥
भावार्थभाषाः - मन्त्र २ के समान है ॥४॥
टिप्पणी: इस मन्त्र में इन नक्षत्रों का वर्णन है। १८−पूर्वा-अषाढ़ा [यद्वा पूर्वा−आषाढा=पूर्वाषाढा, सूप−आकृति, चार तारापुञ्ज, वीसवाँ नक्षत्र], १९−उत्तरा-अषाढ़ा [यद्वा उत्तरा−आषाढा=उत्तराषाढ़ा, सूप−आकृति, चार तारापुञ्ज, इक्कीसवाँ नक्षत्र], २०-अभिजित् [सब ओर से जीतनेवाला, उत्तराषाढ़ा नक्षत्र के शेष पन्द्रह, दण्ड और श्रवणा नक्षत्र के पहिले चार दण्ड, उन्नीस दण्डवाला तारा विशेष, सिंगाड़े की आकृति, तीन तारापुञ्ज], २१−श्रवणा [यद्वा श्रवण, सुननेवाला वा चलनेवाला, तीर की आकृति, तीन तारापुञ्ज, बाइसवाँ नक्षत्र], २२−श्रविष्ठाएँ [अत्यन्त विख्यात, यद्वा धनिष्ठा−बहुत धनवाली, मृदङ्ग−आकृति, पाँच तारापुञ्ज तेइसवाँ नक्षत्र] ॥ ४−(अन्नम्) जीवनसाधनं भक्षणीयं पदार्थं वा (पूर्वा) बहुवचनस्यैकवचनम्। पूर्वाः। प्रथमभवाः (रासताम्) रासतीति दानकर्मा-निघ० ३।२०। रासृ दाने शब्दे च-लोट्, बहुवचनम्, अदादित्वं छान्दसम्। ददतु (मे) मह्यम् (अषाढाः) नञ्+षह मर्षणे-अण्, टाप्। शूर्पाकृति चतुस्तारात्मकं विंशनक्षत्रम् (ऊर्जम्) पराक्रमम् (देवी) देव्यः। प्रकाशमानाः (उत्तराः) उत्तरे भवाः। उत्तराषाढाः। शूर्पाकृति ताराचतुष्टयात्मकमेकविंशनक्षत्रम् (अभिजित्) अभि+जि जये-क्विप्। उत्तराषाढायाः शेषपञ्चदशदण्डाः श्रवणायाः प्रथमदण्डचतुष्टयम् एतदूनविंशतिदण्डात्मकं नक्षत्रम्, तारकात्रयात्मकं शृङ्गाटकाकृति (मे) मह्यम् (रासताम्) रासृ दाने, भ्वादिः, आत्मनेपदम्। ददातु। प्रयच्छतु (पुण्यम्) शुभम् (एव) अवधारणे (श्रवणः) श्रु गतौ श्रवणे च−ल्यु। शराकृति, तारात्रयात्मकं द्वाविंशनक्षत्रम् (श्रविष्ठाः) श्रु श्रवणे-अप्, श्रवः-मतुप्, इष्ठन्। अतिशयेन श्रवणीयाः प्रख्याताः। धनिष्ठानक्षत्रम्। मर्दलाकृति पञ्चतारात्मकं त्रयोविंशनक्षत्रम् (कुर्वताम्) कुर्वन्तु (सुपुष्टिम्) बहुवृद्धिम् ॥