वांछित मन्त्र चुनें

ऊ॒र्ध्वस्ति॑ष्ठतु॒ रक्ष॒न्नप्र॑माद॒मस्तृ॑ते॒मं मा त्वा॑ दभन्प॒णयो॑ यातु॒धानाः॑। इन्द्र॑ इव॒ दस्यू॒नव॑ धूनुष्व पृतन्य॒तः सर्वा॒ञ्छत्रू॒न्वि ष॑ह॒स्वास्तृ॑तस्त्वा॒भि र॑क्षतु ॥

मन्त्र उच्चारण
पद पाठ

ऊर्ध्वः। तिष्ठतु। रक्षन्। अप्रऽमादम्। अस्तृतः। इमम्। मा। त्वा। दभन्। पणयः। यातुऽधानाः। इन्द्रःऽइव। दस्यून्‌। अव। धूनूष्व। पृतन्यतः। सर्वान्। शत्रून्। वि। सहस्व। अस्तृतः। त्वा। अभि। रक्षतु ॥४६.२॥

अथर्ववेद » काण्ड:19» सूक्त:46» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विजय की प्राप्ति का उपदेश।

पदार्थान्वयभाषाः - [हे मनुष्य !] (अस्तृतः) अटूट [नियम] (अप्रमादम्) बिना भूल (रक्षन्) रक्षा करता हुआ (ऊर्ध्वः) ऊँचा (तिष्ठतु) ठहरे, (इमम् त्वा) इस तुझको (पणयः) कुव्यवहारी, (यातुधानाः) पीड़ा देनेवाले लोग (मा दभन्) न दबावें। (इन्द्रः इव) इन्द्र [परम ऐश्वर्यवान् पुरुष] के समान (दस्यून्) लुटेरों को (अव धूनुष्व) हिला दे, और (पृतन्यतः) सेना चढ़ानेवाले (सर्वान्) सब (शत्रून्) शत्रुओं को (वि सहस्व) हरा दे, (अस्तृतः) अटूट [नियम] (त्वा) तेरी (अभि) सब ओर से (रक्षतु) रक्षा करे ॥२॥
भावार्थभाषाः - जो मनुष्य नियम के साथ प्रमाद छोड़कर निरन्तर उन्नति करते हैं, वे ही शत्रुओं पर विजय पाते हैं ॥२॥
टिप्पणी: २−(ऊर्ध्वः) उन्नतः (तिष्ठतु) वर्तताम् (रक्षन्) पालयन् (अप्रमादम्) अनवधानेन विना। सावधानम् (अस्तृतः) म० १। अबाधितो नियमः (इमम्) उपस्थितम् (अस्तृतेमम्) अस्तृतः+इमम्। इति पदपाठे सति छान्दसः सन्धिः। अस्तृत इमम् (त्वा) त्वाम् (मा दभन्) मा हिंसन्तु (पणयः) कुव्यवहारिणः (यातुधानाः) पीडाप्रदाः (इन्द्रः) परमैश्वर्यवान् पुरुषः (इव) यथा (दस्यून्) उपक्षपयितॄन् तस्करान् (अव धूनुष्व) धूञ् कम्पने-लोट्। अवाङ्मुखान् कम्पय (पृतन्यतः) अ० १९।३२।१०। सेनामिच्छतः युयुत्सून् (सर्वान्) शत्रून्। रिपून् (वि) विविधम् (सहस्व) अभिभव। अन्यत् पूर्ववत् ॥