वांछित मन्त्र चुनें

पु॒त्रंपौत्र॑मभित॒र्पय॑न्ती॒रापो॒ मधु॑मतीरि॒माः। स्व॒धां पि॒तृभ्यो॑ अ॒मृतं॒दुहा॑ना॒ आपो॑ दे॒वीरु॒भयां॑स्तर्पयन्तु ॥

मन्त्र उच्चारण
पद पाठ

पुत्रम् । पौत्रम् । अभिऽतर्पयन्ती: । आप: । मधुऽमती: । इमा: । स्वधाम् । पितृऽभ्य: । अमृतम् । दुहाना: । आप: । उभयान् । तर्पयन्तु ॥ ४.३९॥

अथर्ववेद » काण्ड:18» सूक्त:4» पर्यायः:0» मन्त्र:39


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

गोरक्षा का उपदेश।

पदार्थान्वयभाषाः - (इमाः) यह (मधुमतीः)मधुर रस [मीठे दूध घी] वाली (आपः) प्राप्तियोग्य [गौएँ] (पुत्रम्) पुत्र और (पौत्रम्) पौत्र को (अभितर्पयन्तीः) सब ओर से तृप्त करती हुई होवें और (पितृभ्यः) पितरों को (स्वधाम्) स्वधारण शक्ति और (अमृतम्) अमरण [जीवन] (दुहानाः) देती हुयीं, (देवीः) उत्तम गुणवाली (आपः) प्राप्तियोग्य [गौएँ] (उभयान्) दोनों पक्षों [स्त्री-पुरुषों] को (तर्पयन्तु) तृप्त करें ॥३९॥
भावार्थभाषाः - मनुष्यों को गौ आदिउपकारी पशुओं की सदा रक्षा करनी चाहिये, जिस से बालक युवा और वृद्ध स्त्री-पुरुषों का पालन होता रहे ॥३९॥
टिप्पणी: ३९−(पुत्रम्) आत्मजम् (पौत्रम्) पुत्रस्य पुत्रम् (अभितर्पयन्तीः) सर्वतः संतोषयन्त्यः (आपः) आप्लृ व्याप्तौ-क्विप्। आपःपदनाम-निघ० ५।३। आपः=आपनाः, आपनानि च-निरु० १२।३७। प्राप्तव्या गावः (मधुमतीः)मधुरसेन घृतदुग्धादिना युक्ताः (इमाः) दृश्यमानाः (स्वधाम्) आत्मधारणशक्तिम् (पितृभ्यः) पालकेभ्यो विद्वद्भ्यः (अमृतम्) अमरणम्। जीवनम् (दुहानाः)प्रयच्छन्त्यः (आपः) प्राप्तव्याः गावः (देवीः) देव्यः। शुभगुणवत्यः (उभयान्)उभयपक्षान् स्त्रीपुरुषान् (तर्पयन्तु) तोषयन्तु। वर्धयन्तु ॥