वांछित मन्त्र चुनें

वि॒वस्वा॑न्नोअमृत॒त्वे द॑धातु॒ परै॑तु मृ॒त्युर॒मृतं॑ न॒ ऐतु॑। इ॑मान्रक्षतु॒ पुरु॑षा॒नाज॑रि॒म्णो मो ष्वेषा॒मस॑वो य॒मं गुः॑ ॥

मन्त्र उच्चारण
पद पाठ

विवस्वान् । न: । अमृतऽत्वे । दधातु । परा । एतु । मृत्यु: । अमृतम् । न: । आ । एतु । इमान् । रक्षतु । पुरुषान् । आ । जरिम्ण: । मो इति । सु । एषाम् । असव: । यमम् । गु: ॥३.६२॥

अथर्ववेद » काण्ड:18» सूक्त:3» पर्यायः:0» मन्त्र:62


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

अभय पाने का उपदेश।

पदार्थान्वयभाषाः - (विवस्वान्) प्रकाशमयपरमेश्वर (नः) हमें (अमृतत्वे) अमरपन [यश] के बीच (दधातु) रक्खे, (मृत्युः) [निर्धनता आदि दुःख] (परा) दूर (एतु) जावे, (अमृतम्) अमरण [धनाढ्यता] (नः) हममें (आ एतु) आवे। वह [परमेश्वर] (इमान्) इन (पुरुषान्) पुरुषों को (जरिम्णः)जीवन की हानि से (आ) सब प्रकार (रक्षतु) बचावे, (एषाम्) इन के (असवः) प्राण (यमम्) मृत्यु को (सु) कष्ट के साथ (मो गुः) कभी न जावें ॥६२॥
भावार्थभाषाः - पुरुषार्थी लोगपरमात्मा के नियम से कभी भूखे-प्यासे नहीं रहते, वे धनवान् होकर अपना जीवन सुखसे बिताते हैं ॥६२॥
टिप्पणी: ६२−(विवस्वान्) प्रकाशमयः परमात्मा (नः) अस्मान् (अमृतत्वे)अमरत्वे। यशसि (दधातु) धारयतु (परा) दूरे (एतु) गच्छतु (मृत्युः) मरणम्।निर्धनतादिदुःखम् (अमृतम्) अमरणम्। धनाढ्यत्वम् (नः) अस्मान् (ऐतु) आगच्छतु (इमान्) उपस्थितान् (रक्षतु) पातु (पुरुषान्) (आ) समन्तात् (जरिम्णः)जरा-इमनिच्। वयोहानेः सकाशात् (मो गुः) इण् गतौ, माङि लुङि रूपम्। मैव गच्छन्तु (सु) कृच्छ्रेण। कष्टेन (एषाम्) पुरुषाणाम् (असवः) प्राणाः (यमम्) मृत्युम् ॥