वांछित मन्त्र चुनें

उदि॒ह्युदि॑हिसूर्य॒ वर्च॑सा मा॒भ्युदि॑हि। द्वि॒षंश्च॒ मह्यं॒ रध्य॑तु॒ मा चा॒हं द्वि॑ष॒तेर॑धं॒ तवेद्वि॑ष्णो बहु॒धा वी॒र्याणि। त्वं नः॑ पृणीहि प॒शुभि॑र्वि॒श्वरू॑पैःसु॒धायां॑ मा धेहि पर॒मे व्योमन् ॥

मन्त्र उच्चारण
पद पाठ

उत् । इहि । उत् । इहि । सूर्य । वर्चसा । मा । अभिऽउदिहि । द्विषन् । च । मह्यम् । रध्यतु । मा । च । अहम् । द्विषते । रधम् । तव । इत् । विष्णो इति । बहुऽधा । वीर्याण‍ि । त्वम् । न: । पृणीहि । पशुऽभि: । विश्वऽरूपै: । सुऽधायाम् । मा । धेहि । परमे । विऽओमन् ॥१.६॥

अथर्ववेद » काण्ड:17» सूक्त:1» पर्यायः:0» मन्त्र:6


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आयु की बढ़ती के लिये उपदेश।

पदार्थान्वयभाषाः - (सूर्य) हे सूर्य ! [सबके चलानेवाले परमेश्वर] (उत् इहि) तू उदय हो, (उत् इहि) तू उदय हो, (वर्चसा)प्रताप के साथ (मा) मुझ पर (अभ्युदिहि) उदय हो−(द्विषन्) वैर करता हुआ [शत्रु] (च) अवश्य (मह्यम् रध्यतु) मेरे वश में हो जावे, (च) और (अहम्) मैं (द्विषते)वैर करते हुए के (मा रधम्) वश में न पड़ूँ (विष्णो) हे विष्णु ! [सर्वव्यापकपरमेश्वर] (तव इत्) तेरे ही (वीर्याणि) वीर कर्म [पराक्रम] (बहुधा) अनेक प्रकारहैं। (त्वम्) तू (नः) हमें (विश्वरूपैः) सब रूपवाले (पशुभिः) प्राणियों से (पृणीहि) भरपूर कर, (मा) मुझे (परमे) सबसे ऊँचे (व्योमन्) विशेष रक्षा पद में (सुधायाम्) पूरी पोषण शक्ति के बीच (धेहि) रख ॥६॥
भावार्थभाषाः - हे वीर विद्वानो ! उसमहाबली सर्वशक्तिमान् जगदीश्वर को सर्वव्यापक साक्षात् करके सबका उपकार करो ॥६॥
टिप्पणी: ६−(उदिहि) उदितो भव (उदिहि) वीप्सायां द्विर्वचनम् (सूर्य) राजसूयसूर्य०। पा०३।१।११४। सरतेः सुवतेर्वा क्यप्। हे सर्वव्यापक सर्वप्रेरक परमेश्वर (वर्चसा)प्रतापेन (मा) माम् (अभ्युदिहि) अभिलक्ष्योदितो भव (द्विषन्) वैरयन्, शत्रुः (च)निश्चयेन (मह्यम्) मदर्थम् (रध्यतु) रध हिंसासंराद्ध्योः-श्यन् दिवादित्वात्।रध्यतिर्वशगमनेऽपिदृश्यते-निरु० १०।४०। वशं प्राप्नोतु (च) समुच्चये (अहम्)धार्मिकः (द्विषते) द्वेषं कुर्वते शत्रवे (मा रधम्) वशं न प्राप्नुयाम् (तव)त्वदीयानि (इत्) एव (विष्णो) हे सर्वव्यापक परमेश्वर (वीर्याणि) वीरकर्माणि (त्वम्) हे परमेश्वर (नः) अस्मान् (पृणीहि) पूरय (पशुभिः) प्राणिभिः (विश्वरूपैः) नानास्वरूपैः (सुधायाम्) सु+डुधाञ् धारणपोषणयोः-अङ्, टाप्। अतिशयेनपोषणशक्तौ (मा) माम् (धेहि) धारय (परमे) सर्वोत्कृष्टे (व्योमन्) सर्वधातुभ्योमनिन्। उ० ४।१४५। वि+अव रक्षणे-मनिन्, विभक्तिलोपः। व्योमन्=व्यवने-निरु०११।४०। विशेषरक्षापदे ॥