वांछित मन्त्र चुनें

ये ते॑ देवि शमि॒तारः॑ प॒क्तारो॒ ये च॑ ते॒ जनाः॑। ते त्वा॒ सर्वे॑ गोप्स्यन्ति॒ मैभ्यो॑ भैषीः शतौदने ॥

मन्त्र उच्चारण
पद पाठ

ये । ते । देवि । शमितार: । पक्तार: । ये । च । ते । जना: । ते । त्वा । सर्वे । गोप्स्यन्ति । मा । एभ्य: । भैषी: । शतऽओदने ॥९.७॥

अथर्ववेद » काण्ड:10» सूक्त:9» पर्यायः:0» मन्त्र:7


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

वेदवाणी की महिमा का उपदेश।

पदार्थान्वयभाषाः - (देवि) हे देवी ! [विजयिनी वेदवाणी] (ये) जो (ते) तेरे (शमितारः) विचारनेवाले (च) और (ये जनाः) जो जन (ते) तेरे (पक्तारः) पक्के [निश्चय] करनेवाले हैं, (ते सर्वे) वे सब (त्वा) तेरी (गोप्स्यन्ति) रक्षा करेंगे, (शतौदने) हे सैकड़ों प्रकार सींचनेवाली वेदवाणी ! (एभ्यः) इन [शत्रुओं] से (मा भैषीः) मत भय कर ॥७॥
भावार्थभाषाः - विचारवान् और दृढ़ विश्वासी पुरुष वेदविद्या की रक्षा करके शत्रुओं से निर्भय रहते हैं ॥७॥
टिप्पणी: ७−(ये) (ते) तव (देवि) हे विजयिनि वेदवाणि (शमितारः) अ० ९।५।५। शम आलोचने−तृच्। विचारवन्तः (पक्तारः) पक्वकारकाः। निश्चयकारकाः (ये) (च) (ते) (जनाः) मनुष्याः (ते) (त्वा) (सर्वे) (गोप्स्यन्ति) रक्षिष्यन्ति (एभ्यः) शत्रुभ्यः (मा भैषीः) भयं मा प्राप्नुहि (शतौदने) अन्यत् पूर्ववत्−म० १ ॥