वांछित मन्त्र चुनें

आ॒विः सन्निहि॑तं॒ गुहा॒ जर॒न्नाम॑ म॒हत्प॒दम्। तत्रे॒दं सर्व॒मार्पि॑त॒मेज॑त्प्रा॒णत्प्रति॑ष्ठितम् ॥

मन्त्र उच्चारण
पद पाठ

आवि: । सत् । निऽहितम् । गुहा । जरत् । नाम । महत् । पदम् । तत्र । इदम् । सर्वम्‌ । आर्पितम् । एजत् । प्राणत् । प्रतिऽस्थितम् ॥८.६॥

अथर्ववेद » काण्ड:10» सूक्त:8» पर्यायः:0» मन्त्र:6


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा और जीवात्मा के स्वरूप का उपदेश।

पदार्थान्वयभाषाः - (आविः) प्रकट, (जरत्) स्तुतियोग्य, (नाम) प्रसिद्ध (महत्) पूजनीय, (पदम्) पाने योग्य (सत्) अविनाशी ब्रह्म (गुहा) हृदय में (निहितम्) दृढ़ स्थापित है। (तत्र) उसी [ब्रह्म] में (अर्पितम्) जमा हुआ (इदम् सर्वम्) यह सब (एजत्) चेष्टा करता हुआ और (प्राणत्) श्वास लेता हुआ (प्रतिष्ठितम्) प्रत्यक्ष स्थित है ॥६॥
भावार्थभाषाः - वह परब्रह्म सब सृष्टि के भीतर और बाहिर व्यापकर सबको नियम में चलाता है ॥६॥
टिप्पणी: ६−(आविः) अ० ८।३।२४। आङ्+अव रक्षणादिषु-इसि। प्रकटम् (सत्) अविनाशि ब्रह्म (निहितम्) दृढं स्थापितम् (गुहा) गुहायाम्। हृदये (जरत्) जीर्यतेरतृन्। पा० ३।२।१०४। इति जॄ स्तुतौ-अतृन्, बाहुलकात्। जरा स्तुतिर्जरतेः स्तुतिकर्मणः-निरु० १०।८। स्तुत्यम् (नाम) प्रसिद्धम् (महत्) पूजनीयम् (पदम्) प्रापणीयम् (तत्र) ब्रह्मणि (इदम्) दृश्यमानम् (सर्वम्) जगत् (आर्पितम्) समन्तात् स्थापितम् (एजत्) चेष्टायमानम् (प्राणत्) श्वसत् (प्रतिष्ठितम्) प्रत्यक्षं स्थितम् ॥