वांछित मन्त्र चुनें

अवि॒र्वै नाम॑ दे॒वत॒र्तेना॑स्ते॒ परी॑वृता। तस्या॑ रू॒पेणे॒मे वृ॒क्षा हरि॑ता॒ हरि॑तस्रजः ॥

मन्त्र उच्चारण
पद पाठ

अवि: । वै । नाम । देवता । ऋतेन । आस्ते । परिऽवृता । तस्या: । रूपेण । इमे । वृक्षा: । हरिता: । हरितऽस्रज: ॥८.३१॥

अथर्ववेद » काण्ड:10» सूक्त:8» पर्यायः:0» मन्त्र:31


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा और जीवात्मा के स्वरूप का उपदेश।

पदार्थान्वयभाषाः - (अविः) रक्षक (वै) ही (नाम) नाम (देवता) देवता [दिव्य शक्ति, परमात्मा] (ऋतेन) सत्यज्ञान से (परिवृता) घिरा हुआ (आस्ते) स्थित है। (तस्याः) उस [देवता] के (रूपेण) रूप [स्वभाव] से (इमे) यह (हरिताः) हरे (वृक्षाः) वृक्ष (हरितस्रजः) दाख [समान फलों] की मालावाले हैं ॥३१॥
भावार्थभाषाः - ज्ञानस्वरूप परमात्मा सर्वरक्षक प्रसिद्ध है, उसी की दया से यह हरे-हरे वृक्ष आदि प्राणियों को फल आदि से सुखदायक होते हैं ॥३१॥
टिप्पणी: ३१−(अविः) सर्वधातुभ्य इन्। उ० ४।११८। अव रक्षणादिषु-इन्। रक्षिका (वै) एव (नाम) संज्ञा (देवता) दिव्यगुणा शक्तिः परमेश्वरः (ऋतेन) सत्यज्ञानेन (आस्ते) तिष्ठति (परिवृता) आच्छादिता (तस्याः) देवतायाः (रूपेण) स्वभावेन (इमे) दृश्यमानाः (वृक्षाः) तरवः (हरिताः) हरितवर्णाः (हरितस्रजः) हरिता कपिलद्राक्षा-इति शब्दकल्पद्रुमः, हरित एव हरिताः। द्राक्षावत् फलानां स्रजो मालाः सन्ति येषां ते ॥