देवता: आत्मा
ऋषि: कुत्सः
छन्द: पुरोबृहती त्रिष्टुब्गर्भार्षी पङ्क्तिः
स्वर: ज्येष्ठब्रह्मवर्णन सूक्त
अ॑न॒न्तं वित॑तं पुरु॒त्रान॒न्तमन्त॑वच्चा॒ सम॑न्ते। ते ना॑कपा॒लश्च॑रति विचि॒न्वन्वि॒द्वान्भू॒तमु॒त भव्य॑मस्य ॥
पद पाठ
अनन्तम् । विऽततम् । पुरुऽत्रा । अनन्तम् । अन्तऽवत् । च । समन्ते इति सम्ऽअन्ते । ते इति । नाकऽपाल: । चरति । विऽचिन्वन् । विद्वान् । भूतम् । उत । भव्यम् । अस्य ॥८.१२॥
अथर्ववेद » काण्ड:10» सूक्त:8» पर्यायः:0» मन्त्र:12
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परमात्मा और जीवात्मा के स्वरूप का उपदेश।
पदार्थान्वयभाषाः - (अनन्तम्) अन्तरहित (पुरुत्रा) बहुत प्रकार (विततम्) फैला हुआ [ब्रह्म अर्थात्] (नाकपालः) मोक्षसुख का स्वामी [परमात्मा] (समन्ते) परस्पर सीमायुक्त (ते) उन [दोनों अर्थात्] (अनन्तम्) अन्तरहित [कारण] (च) और (अन्तवत्) अन्तवाले [कार्य जगत्] को (विचिन्वन्) अलग-अलग करता हुआ और (अस्य) इस [ब्रह्माण्ड] का (भूतम्) भूतकाल (उत) और (भव्यम्) भविष्यत् काल को (विद्वान्) जानता हुआ (चरति) विचरता है ॥१२॥
भावार्थभाषाः - अनन्त मोक्षस्वरूप परमात्मा कारण कार्यरूप जगत् तथा भूत भविष्यत् और वर्तमान काल को जानता हुआ सदा वर्तमान है ॥१२॥
टिप्पणी: १२−(अनन्तम्) अन्तरहितम् (विततम्) विस्तृतं ब्रह्म (पुरुत्रा) बहुविधम् (अनन्तम्) अन्तरहितं कारणम् (अन्तवत्) सान्तं कार्यम् (च) (समन्ते) परस्परसीमायुक्ते (ते) द्वे (नाकपालः) मोक्षसुखस्य स्वामी (चरति) गच्छति (विचिन्वन्) पृथक् पृथक् कुर्वन् (विद्वान्) जानन् (भूतम्) गतकालम् (उत) अपि (भव्यम्) अनागतकालम् (अस्य) जगतः ॥