वांछित मन्त्र चुनें

क॒थं वातो॒ नेल॑यति क॒थं न र॑मते॒ मनः॑। किमापः॑ स॒त्यं प्रेप्स॑न्ती॒र्नेल॑यन्ति क॒दा च॒न ॥

मन्त्र उच्चारण
पद पाठ

कथम् । वात: । न । इलयति । कथम् । न । रमते । मन: । किम् । आप: । सत्यम् । प्रऽईप्सन्ती: । न । इलयन्ति । कदा । चन ॥७.३७॥

अथर्ववेद » काण्ड:10» सूक्त:7» पर्यायः:0» मन्त्र:37


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्म के स्वरूप के विचार का उपदेश।

पदार्थान्वयभाषाः - (कथम्) कैसे (वातः) वायु (न) नहीं (इलयति) सोता है, (कथम्) कैसे (मनः) मन (न) नहीं (रमते) ठहरता है। (किम्) क्यों (आपः) प्रजाएँ वा जल (सत्यम्) सत्य [ईश्वरनियम] की (प्रेप्सन्तीः) पाने की इच्छा करते हुए (कदा चन) कभी भी (न) नहीं (इलयन्ति) सोते हैं ॥३७॥
भावार्थभाषाः - यह वायु, मन, सब प्राणी वा जल आदि क्यों अपना कर्तव्य करते रहते हैं, इसलिये कि एक परब्रह्म संसार में व्याप कर सबको चला रहा है-अगला मन्त्र देखो ॥३७॥
टिप्पणी: ३७−(कथम्) केन प्रकारेण (वातः) वायुः (न) निषेधे (इलयति) इल स्वप्नक्षेपणयोः। स्वपिति (कथम्) (न) (रमते) उपरमति। तिष्ठति (मनः) सङ्कल्पविकल्पात्मकमन्तःकरणम् (किम्) (आपः) प्रजाः। जलानि (सत्यम्) परमात्मनियमम् (प्रेप्सन्तीः) प्राप्तुमिच्छन्त्यः (न) (इलयन्ति) शेरते (कदा चन) कस्मिन्नपि काले ॥