यत्र॑ दे॒वा ब्र॑ह्म॒विदो॒ ब्रह्म॑ ज्ये॒ष्ठमु॒पास॑ते। यो वै तान्वि॒द्यात्प्र॒त्यक्षं॒ स ब्र॒ह्मा वेदि॑ता स्यात् ॥
पद पाठ
यत्र । देवा: । ब्रह्मऽविद: । ब्रह्म । ज्येष्ठम् । उपऽआसते । य: । वै । तान् । विद्यात् । प्रतिऽअक्षम् । स: । ब्रह्मा । वेदिता । स्यात् ॥७.२४॥
अथर्ववेद » काण्ड:10» सूक्त:7» पर्यायः:0» मन्त्र:24
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्म के स्वरूप के विचार का उपदेश।
पदार्थान्वयभाषाः - (यत्र) जहाँ पर (देवाः) विजयी (ब्रह्मविदः) ब्रह्मज्ञानी पुरुष (ज्येष्ठम्) ज्येष्ठ [सब से बड़े वा सब से श्रेष्ठ] (ब्रह्म) ब्रह्म को (उपासते) भजते हैं। [वहाँ] (यः) जो (वै) ही (तान्) उन [ब्रह्मज्ञानियों] को (प्रत्यक्षम्) प्रत्यक्ष करके (विद्यात्) जान लेवे, (सः) वह (ब्रह्मा) ब्रह्मा [महापण्डित] (वेदिता) ज्ञाता [जानकर] (स्यात्) होवे ॥२४॥
भावार्थभाषाः - जो विद्वान् ब्रह्मज्ञानियों से ईश्वरज्ञान प्राप्त करते हैं, वे ही संसार में तत्त्वदर्शी विद्वान् होते हैं ॥२४॥
टिप्पणी: २४−(यत्र) यस्मिन् देशे (देवाः) विजयिनः (ब्रह्मविदः) ब्रह्मज्ञानिनः (ज्येष्ठम्) म० १७। वृद्धतमम्। उत्कृष्टतमम् (उपासते) पूजयन्ति (यः) (वै) एव (तान्) (ब्रह्मविदः) (विद्यात्) जानीयात् (प्रत्यक्षम्) समक्षम् (सः) जिज्ञासुः (ब्रह्मा) महापण्डितः (वेदिता) ज्ञाता (स्यात्) ॥