वांछित मन्त्र चुनें

कस्मा॒दङ्गा॑द्दीप्यते अ॒ग्निर॑स्य॒ कस्मा॒दङ्गा॑त्पवते मात॒रिश्वा॑। कस्मा॒दङ्गा॒द्वि मि॑मी॒तेऽधि॑ च॒न्द्रमा॑ म॒ह स्क॒म्भस्य॒ मिमा॑नो॒ अङ्ग॑म् ॥

मन्त्र उच्चारण
पद पाठ

कस्मात् । अङ्गात् । दीप्यते । अग्नि: । अस्य । कस्मात् । अङ्गात् । पवते । मातरिश्वा । कस्मात् । अङ्गात् । वि । मिमीते । अधि । चन्द्रमा: । मह: । स्कम्भस्य । मिमान: । अङ्गम् ॥७.२॥

अथर्ववेद » काण्ड:10» सूक्त:7» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्म के स्वरूप के विचार का उपदेश।

पदार्थान्वयभाषाः - (अस्य) इस [सर्वव्यापक ब्रह्म] के (कस्मात् अङ्गात्) कौन से अङ्ग से (अग्निः) अग्नि (दीप्यते) चमकता है, (कस्मात् अङ्गात्) कौन से अङ्ग से (मातरिश्वा) आकाश में चलनेवाला [वायु] (पवते) झोंके लेता है। (कस्मात् अङ्गात्) कौन से अङ्ग से (महः) विशाल (स्कम्भस्य) स्कम्भ [धारण करनेवाले परमात्मा] के (अङ्गम्) अङ्ग [स्वरूप] को (मिमानः) मापता हुआ (चन्द्रमाः) चन्द्रमा (वि) विविध प्रकार (अधि मिमीते) [अपना मार्ग] मापता रहता है ॥२॥
भावार्थभाषाः - मन्त्र १ के समान है ॥२॥
टिप्पणी: २−(कस्मात् अङ्गात्) (दीप्यते) प्रकाशते (अग्निः) प्रसिद्धो वह्निः (अस्य) परमेश्वरस्य (पवते) पवते गतिकर्मा-निघ० २।१४। गच्छति (मातरिश्वा) अ० ५।१०।८। आकाशे गन्ता वायुः (वि) विविधम् (मिमीते) मानं करोति स्वमार्गस्य (अधि) उपरि (चन्द्रमाः) चन्द्रलोकः (महः) महतः (स्कम्भस्य) स्कभि प्रतिबन्धे-अच्। स्तम्भस्य। सर्वधारकस्य परमेश्वरस्य (मिमानः) मानं कुर्वाणः (अङ्गम्) स्वरूपम्। अन्यत् पूर्ववत् ॥