वांछित मन्त्र चुनें

यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तं राजा॒ वरु॑णो म॒णिं प्रत्य॑मुञ्चत शं॒भुव॑म्। सो अ॑स्मै स॒त्यमिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

मन्त्र उच्चारण
पद पाठ

यम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तम् । राजा । वरुण: । मणिम् । प्रति । अमुञ्चत । शम्ऽभुवम् । स: । अस्मै । सत्यम् । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१५॥

अथर्ववेद » काण्ड:10» सूक्त:6» पर्यायः:0» मन्त्र:15


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सब कामनाओं की सिद्धि का उपदेश।

पदार्थान्वयभाषाः - (यम्) जिस (मणिम्) मणि [प्रशंसनीय वैदिक नियम] को.... म० ११ (अबध्नात्) बाँधा है। (तम्) उस (शंभुवम्) शान्तिकारक (मणिम्) मणि [प्रशंसनीय वैदिक नियम] को (वरुणः) श्रेष्ठ (राजा) राजा ने (प्रति अमुञ्चत) स्वीकार किया है। (सः) वह [वैदिक नियम] (अस्मै) इस [राजा] के लिये (इत्) ही (सत्यम्) सत्य को (भूयोभूयः) बहुत-बहुत.... म० ६ ॥१५॥
भावार्थभाषाः - राजा प्राचीन इतिहासों को विचार कर वैदिक शिक्षा स्वीकार करके सत्य के प्रचार में सदा प्रवृत्त रहे ॥१५॥
टिप्पणी: १५−(राजा) शासकः (वरुणः) वरणीयः। श्रेष्ठः (प्रत्यमुञ्चत) स्वीकृतवान् (शंभुवम्) शम्+भू-क्विप्। शान्तिकारकम् (अस्मै) राज्ञे (सत्यम्) यथार्थम्। अन्यत् पूर्ववत् ॥