वांछित मन्त्र चुनें

यो व॑ आपो॒ऽपामश्मा॒ पृश्नि॑र्दि॒व्यो॒प्स्व॒न्तर्य॑जु॒ष्यो देव॒यज॑नः। इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि। तेन॒ तम॒भ्यति॑सृजामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ॥

मन्त्र उच्चारण
पद पाठ

य: । व: । आप: । अपाम् । अश्मा । पृश्नि: । दिव्य: । अप्ऽसु । अन्त: । यजुष्य: । देवऽयजन: । इदम् । तम् । अति । सृजामि । तम् । मा । अभिऽअवनिक्षि । तेन । तम् । अभिऽअतिसृजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । तम् । वधेयम् । तम् । स्तृषीय । अनेन । ब्रह्मणा । अनेन । कर्मणा । अनया । मेन्या ॥५.२०॥

अथर्ववेद » काण्ड:10» सूक्त:5» पर्यायः:0» मन्त्र:20


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विद्वानों के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (आपः) हे विद्वानो ! (यः) जो (वः अपाम्) तुम विद्वानों का (दिव्यः) दिव्य (अश्मा) व्यापक गुण (पृश्निः) सूर्य [समान] (अप्सु अन्तः) विद्वानों के बीच.... मन्त्र १५ ॥२०॥
भावार्थभाषाः - मन्त्र १५ के समान है ॥२०॥
टिप्पणी: २०−(अश्मा) अशू व्याप्तौ अश भोजने वा−मनिन्। व्यापकस्वभावः (पृश्निः) अ० १।११।४। पृश्निरादित्यो भवति−प्राश्नुत एनं वर्ण इति नैरुक्ताः संस्प्रष्टा रसान् संस्प्रष्टा भासं ज्योतिषां, संस्पृष्टो भासेति वा-निरु० २।१४। सूर्यो यथा (दिव्यः) उत्तमः। अन्यत् पूर्ववत्−म० १५ ॥