वांछित मन्त्र चुनें

इन्द्रो॒ मेऽहि॑मरन्धय॒त्पृदा॑कुं च पृदा॒क्वम्। स्व॒जं तिर॑श्चिराजिं कस॒र्णीलं॒ दशो॑नसिम् ॥

मन्त्र उच्चारण
पद पाठ

इन्द्र: । मे । अहिम् । अरन्धयत् । पृदाकुम् । च । पृदाक्वम् । स्वजम् । तिरश्चिऽराजिम् । कसर्णीलम् । दशोनसिम् ॥४.१७॥

अथर्ववेद » काण्ड:10» सूक्त:4» पर्यायः:0» मन्त्र:17


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सर्प रूप दोषों के नाश का उपदेश।

पदार्थान्वयभाषाः - (इन्द्रः) बड़े ऐश्वर्यवान् पुरुष ने (मे) मेरे लिये (पृदाकुम्) फुँसकारनेवाले (अहिम्) साँप (च) और (पृदाक्कम्) फुँसकारती हुई साँपिन को, (स्वजम्) स्वज [लिपट जानेवाले], (तिरश्चिराजिम्) तिरछी धारावाले, (कसर्णीलम्) बुरे मार्ग में छिपे हुए और (दशोनसिम्) काटकर हानि पहुँचानेवाले [साँप] को (अरन्धयत्) नाश किया है ॥१७॥
भावार्थभाषाः - मन्त्र १६ के समान है ॥१७॥
टिप्पणी: १७−(इन्द्रः) परमैश्वर्यवान् पुरुषः (मे) मह्यम् (अहिम्) महाहिंसकम् (अरन्धयत्) म० १० मारितवान् (पृदाकुम्) कुत्सितशब्दकारिणम् (च) (पृदाक्कम्) कुत्सितशब्दकरी सर्पिणीम् (स्वजम्) आलिङ्गनशीलम् (तिरश्चिराजिम्) म० १३। तिर्यगवस्थितरेखम् (कसर्णीलम्) म० ५। कुत्सितमार्गे लीनं श्लिष्टम् (दशोनसिम्) दंश दंशने-घञर्थे क। सानसिवर्णसि०। उ० ४।१०७। ऊन परिहाणे-असि। दशेन दंशनेन ऊनसिर्हानिर्यस्मात् तं सर्पम् ॥