म॒स्तिष्क॑मस्य यत॒मो ल॒लाटं॑ क॒काटि॑कां प्रथ॒मो यः क॒पाल॑म्। चि॒त्वा चित्यं॒ हन्वोः॒ पूरु॑षस्य॒ दिवं॑ रुरोह कत॒मः स दे॒वः ॥
पद पाठ
मस्तिष्कम् । अस्य । यतम: । ललाटम् । ककाटिकाम् । प्रथम: । य: । कपालम् । चित्वा । चित्यम् । हन्वो: । पुरुषस्य । दिवम् । रुरोह । कतम: । स: । देव: ॥२.८॥
अथर्ववेद » काण्ड:10» सूक्त:2» पर्यायः:0» मन्त्र:8
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
मनुष्यशरीर की महिमा का उपदेश।
पदार्थान्वयभाषाः - (यतमः) जौन सा (प्रथमः) सब से पहिला (यः) नियन्ता (अस्य) इस (पुरुषस्य) मनुष्य के (मस्तिष्कम्) भेजे को, (ललाटम्) ललाट [माथे] को, (ककाटिकाम्) ककाटिका [शिर के पिछले भाग] को, (कपालम्) कपाल [खोपड़ी] को और (हन्वोः) दोनों जबड़ों के (चित्यम्) संचय को (चित्वा) संचय करके [वर्तमान है], (सः) वह (कतमः) कौन सा (देवः) देव [स्तुतियोग्य] (दिवम्) प्रकाश को (रुरोह) चढ़ा है ॥८॥
भावार्थभाषाः - प्रश्न है कि जिसने मनुष्यदेह के अति सुखदायी अङ्ग बनाये हैं, वह सब में कौन सा प्रकाशमान देव है ॥८॥
टिप्पणी: ८−(मस्तिष्कम्) अ० २।३३।१। मस्तकस्नेहम् (अस्य) मनुष्यस्य (यतमः) बहूनां मध्ये यः (ललाटम्) अ० ९।७।१। भ्रुवोरूर्ध्वभागम्। भालम् (ककाटिकाम्) क+कट गतौ-घञ्, स्वार्थे क प्रत्ययः, टाप्, अकारस्य इत्वम्। के शिरसि काटो गतिर्यस्याः ककाटिका ताम्। शिरःपश्चाद्भागम् (प्रथमः) (यः) यम्−ड। नियन्ता (कपालम्) अ० ९।८।२२। शिरोऽस्थि (चित्वा) चयनं कृत्वा (चित्यम्) चिञ् चयने-क्यप्, तुक्। चयनम् (हन्वोः) म० ७। (पुरुषस्य) (दिवम्) प्रकाशम् (रुरोह) आरूढवान् (कतमः) बहूनां मध्ये कः (सः) (देवः) स्तुत्यः ॥