वांछित मन्त्र चुनें

नम॑स्ते प्रवतो नपा॒द्यत॒स्तपः॑ स॒मूह॑सि। मृ॒डया॑ नस्त॒नूभ्यो॒ मय॑स्तो॒केभ्य॑स्कृधि ॥

मन्त्र उच्चारण
पद पाठ

नम: । ते । प्रऽवत: । नपात् । यत: । तप: । सम्ऽऊहसि ।मृडय । न:। तनूभ्य:। मय: । तोकेभ्य: । कृधि ॥

अथर्ववेद » काण्ड:1» सूक्त:13» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

आत्मरक्षा के लिये उपदेश।

पदार्थान्वयभाषाः - हे (प्रवतः) अपने भक्त, के (नपात्) न गिरानेहारे ! (ते) तुझको (नमः) नमस्कार है, (यतः) क्योंकि तू [दुष्टों पर] (तपः) संताप को (समूहसि) संयुक्त करता है। (नः) हमें (तनूभ्यः) हमारे शरीरों के लिये (मृडय) सुख दे और (तोकेभ्यः) हमारे सन्तानों के लिये (मयः) सुख (कृधि) प्रदान कर ॥२॥
भावार्थभाषाः - परमेश्वर भक्तों को आनन्द और पापियों को कष्ट देता है। सब मनुष्य नित्य धर्म में प्रवृत्त रहें और संसार भर में सुख की वृद्धि करें ॥२॥
टिप्पणी: २−प्र-वतः। प्रपूर्वकात् वन संभक्तौ=सेवने, याचे च-क्विप्। गमः क्वौ पा० ६।४।४०। अत्र। गमादीनामिति वक्तव्यम्। इति वार्त्तिकेन नकारलोपः। ह्रस्वस्य पिति कृति तुक्। पा० ६।१।७१। इति तुक् आगमः। भक्तस्य सेवकस्य याचकस्य अथवा भक्तान् द्वितीयार्थे। नपात्। नञ्पूर्वकात् पत अधःपतने, णिच्-क्विप्। नभ्राण्नपात्०। पा० ६।३।७५। इति नञः प्रकृतिभावः। न पातयतीति नपात्। हे नपातयितः, न पातनशील ! धारयितः। (नपात्) य० १२।१०८। न विद्यते पातो धर्मात् पतनं यस्य सः−इति श्रीमद्दयानन्दः। यतः। यस्मात् कारणात्। तपः। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति तप सन्तापे−असुन्। सन्तापम्। सम्+ऊहसि−ऊह वितर्के। उपसर्गवशात् संघीकरणे। संहतं करोषि, संयोजयसि। मृडय। मृड तोषणे। तोषय, अनुगृहाण। तनूभ्यः। १।१।१। शरीरेभ्यः। तेषां हिताय। मयः। मिञ् हिंसायाम्−असुन्। मिनोति दुःखम्। सुखम्। निघ० ३।६। तोकेभ्यः। कृदाधारार्चिकलिभ्यः कः। उ० ३।४०। इति तु वृद्धौ पूर्तौ−क प्रत्ययः। तौति पूरयति गृहमिति तोकम्। अपत्यनाम−निघ० २।२। अपत्येभ्यः। कृधि। कुरु। देहि। तोकेभ्यस्कृधि। कःकरत्करतिकृधिकृतेष्वनदितेः। पा० ८।३।५०। इति विसर्गस्य सत्त्वम् ॥