उ॒प॒या॒मगृ॑हीतोऽसि सु॒शर्मा॑सि सुप्रतिष्ठा॒नो बृ॒हदु॑क्षाय॒ नमः॑। विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ऽए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥८॥
उ॒प॒या॒मगृ॑ही॒त इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। सु॒शर्म्मेति॑ सु॒ऽशर्म्मा॑। अ॒सि॒। सु॒प्र॒ति॒ष्ठा॒नः। सु॒प्र॒ति॒स्था॒न इति॑ सुऽप्रतिस्था॒नः। बृ॒हदु॑क्षा॒येति॑ बृ॒हत्ऽउ॑क्षाय। नमः॑। विश्वे॑भ्यः। त्वा॒। दे॒वेभ्यः॑। ए॒षः। ते॒। योनिः॑। विश्वे॑भ्यः। त्वा॒। दे॒वेभ्यः॑ ॥८॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर भी गृहस्थ को सेवने योग्य धर्म्म का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुनरपि गृहिकर्त्तव्यमुपदिश्यते ॥
(उपयामगृहीतः) (असि) (सुशर्म्मा) शोभनानि गृहाणि यस्य सः। शर्म्मेति गृहनामसु पठितम्। (निघं०३.४) (असि) (सुप्रतिष्ठानः) सुष्ठु प्रतिष्ठानं प्रतिष्ठा यस्य सः (बृहदुक्षाय) बृहद्वीर्य्यमुक्षति सिञ्चति तस्मै। बृहदिति महन्नामसु पठितम्। (निघं०३.३) (नमः) अन्नम्। नम इत्यन्ननामसु पठितम्। (निघं०२.७) (विश्वेभ्यः) अखिलेभ्यः (त्वा) त्वाम् (देवेभ्यः) कमनीयदिव्यसुखेभ्यः (एषः) (ते) (योनिः) गृहम् (विश्वेभ्यः) समस्तेभ्यः (त्वा) त्वाम् (देवेभ्यः) विद्वद्भ्यः। अयं मन्त्रः (शत०४.४.१.१४-१८ तथा ४.४.२.१-११) व्याख्यातः ॥८॥