अ॒यम्। वे॒नः। चो॒द॒य॒त्। पृश्नि॑गर्भा॒ इति॒ पृश्नि॑ऽगर्भाः। ज्योति॑र्जरायु॒रिति॒ ज्योतिः॑ऽजरायुः। रज॑सः। वि॒मान॒ इति॑ वि॒ऽमाने॑। इ॒मम। अ॒पाम्। स॒ङ्ग॒म इति॑ सम्ऽग॒मे। सूर्य्य॑स्य। शिशु॑म्। न। विप्राः॑। म॒तिभि॒रिति॑ म॒तिऽभिः॑। रि॒ह॒न्ति॒। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। मर्का॑य। त्वा॒ ॥१६॥
हिन्दी - स्वामी दयानन्द सरस्वती
अब सभाध्यक्ष राजा को क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
अथ सभाध्यक्षेण राज्ञा किं कर्त्तव्यमित्युपदिश्यते ॥
(अयम्) (वेनः) कमनीयश्चन्द्रः (चोदयत्) प्रेरयति, अत्र लडर्थे लङडभावश्च। (पृश्निगर्भाः) पृश्निरन्तरिक्षं गर्भो येषां ते पृश्निगर्भाः (ज्योतिर्जरायुः) ज्योतिषां जरायुरिवाच्छादकः (रजसः) लोकसमूहस्य (विमाने) विगतं मानं परिमाणं यस्यान्तरिक्षस्य तस्मिन् (इमम्) प्रत्यक्षम् (अपाम्) जलानाम् (सङ्गमे) सङ्ग्राम इव। सङ्गम इति सङ्ग्रामनामसु पठितम्। (निघं०२.१७) (सूर्य्यस्य) मार्तण्डस्य (शिशुम्) शासनीयं कुमारं बालकम् (न) इव (विप्राः) मेधाविनः (मतिभिः) बुद्धिभिः (रिहन्ति) सत्कुर्वन्ति। रिहन्तीत्यर्चतिकर्म्मसु पठितम्। (निघं०३.१४) (उपयामगृहीतः) राज्याङ्गैर्युक्तः (मर्काय) मृत्युनिमित्ताय वायवे (त्वा) त्वाम् ॥ इमं मन्त्रं निरुक्तकार एवं समाचष्टे−वेनो वेनतेः कान्तिकर्म्मणस्तस्यैषा भवति। (निरु०१०.३८) अयं वेनश्चोदयत् पृश्निगर्भा प्राष्टवर्णगर्भा आप इति वा ज्योतिर्जरायुर्ज्योतिरस्य जरायुस्थानीयं भवति, जरायु जरया गर्भस्थ जरया यूयत इति वा। इममपां च सङ्गमने सूर्य्यस्य च शिशुमिव विप्रा मतिभी रिहन्ति लिहन्ति स्तुवन्ति वर्द्धयन्ति पूजयन्तीति वा। शिशुः शंसनीयो भवति, शिशीतेर्वा स्याद्, दानकर्म्मणश्चिरलब्धो गर्भो भवति। (निरु०१०.३९)। अयं मन्त्रः (शत०४.२.१.१०-११) व्याख्यातः ॥१६॥